SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तिः अनुत्तरसुराणामपि अस्थिरत्वम् ॥७९॥ RecommeICODEEPce DOOD आमोसहि-विप्पोसहि-खेलोसहि पमुह, लद्धिसमिद्धिपसिद्धियसिद्धियअस्थिहिं तुह । तहवि वाहि अहियासहि सामि ! समाहिवर, तिणि कुमार जोगीसरु महरिसि तुहुँ जि पर ॥७३॥ तुह रूवहिं पडिछंदउ अस्थि न भुवणि जिव, अइसमग्ग निरवगह वेरगहइ तिव । ता मह महरिसि सहरिसु एव पसाउ करि, खमहि खमहि अवरद्धउं जं अन्नाणभरि ॥ ७४ ।। इय कयथुवि तो देव दोवि पणमेवि पय, परमपमोयपुलयंचिय निय नियठाणि गय । सामि सणंकुमार सो धारिय धम्मधुरु, कप्पि सणंकुमारि उपन्नु महिड्ढिसुरु पवरु ॥ १७५ ॥ इति सणंकुमार चक्कीकहा सम्मत्ता । एतत्कथानकानुसारेण गाथार्थः सुगमः ॥ २८ ॥ क्षणमात्रेण देहस्य परिहाणिं प्रतिपाद्य शेषस्यापि सर्वस्य तामाह जइ ता लवसत्तमसुरा विमाणवासीवि परिवडंति सुरा। चिंतिज्जतं सेसं, संसारे सासयं कयरं ॥ २९ ॥ 'लवः' कालविशेषोऽत्र प्रक्रमे पुनः सुगतियोग्यप्रकृतिबन्धप्रस्तावः प्रोच्यते । लवः सप्तमो येषां सुरविमानानां तानि लवससमसुरविमानानि-अनुत्तरसुरोत्पत्तिस्थानानि तद्वासिनोऽनुत्तरसुरा एव । किल कोऽपि जीवो भावनाविशेषात् क्रमेण विशुद्ध्यन् प्रथमलवे १ सुमानुषत्वयोग्याः सत्कर्मप्रकृतिर्बध्नाति । ततो २ व्यन्तराणां योग्यास्ततः क्रमेण ३ ज्योतिष्काणां ४ भवनवासिनां ५ वैमानिकानां ६-७ प्रैवेयकवर्तिनामनुत्तरवासिनां च देवानां योग्याः करोति । एवं च सप्तमो लवोऽनुत्तरसुरोत्पत्तियोग्यो भवति । ततो यदि | तावदनुत्तरविमानवासिनस्त्रयस्त्रिंशत्सागरोपमायुषोऽपि विजयवेजयन्तादिदेवाः स्वस्थितिक्षयात्प्रच्यवन्ते तदानीमन्यत्कतरद्वस्तु संसारे शाश्वतम् जीवानां सांसारिकसुखोत्पत्तिस्थानं ?, न किंचिन्नित्यमस्तीति भावः। श्रीसिद्धवृत्तावत्रापरोऽथों व्याख्यातोऽस्ति स तत एवावसेयः ॥ २९ ॥ साम्प्रतं पुण्यानुबन्धिनः पापानुबन्धिनश्च पुण्यस्य परमार्थतो दुःक्खरूपतामाह- । Accccccompoopeace
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy