________________
३७
अलंकारकौस्तुभः । पमासिद्ध्या न तस्य धर्मता-इति वाच्यम् । 'यान्त्या मुहुः-' इत्यादावपि तदभावापत्तेः-इत्याहुः।
क्वचिद्विम्बप्रतिबिम्बभूतयोरन्यतरविशेषणस्य शाब्दत्वेऽन्यस्यार्थत्वमपि । यथा
'शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥' • अत्र मालविकालतयोरुपमायां गण्डपत्रयोरलंकारकुसुमानां च बिम्बप्रतिबिम्बभावः । तत्र गण्डांशे पाण्डुत्वं शब्दोपात्तं विशेषणीभूतम्, पत्रांशे तु परिणतत्वगम्यं पाण्डुत्वम् । एवम्
'सभा नलश्रीयमकैर्यमाद्यैर्नलं विनासीद्धृतदिव्यरत्नैः ।
भामाङ्गणप्राघुणिके चतुर्भिर्देवद्रुमैौरिव पारिजाते ॥' अत्र स्वर्गसभयोरुपमायां यमादीनां कल्पद्रुमादीनां च नलपारिजातयोश्च बिम्बप्रतिबिम्बभावः । तत्र च नलप्रतियोगिकाभाववत्त्वेन सभोक्तिः । भामाङ्गणवृत्तित्वं च पारिजातस्य विशेषणं दत्तम् । ततश्च सभावृत्त्यभावप्रतियोगित्वं नलस्य, स्वर्गवृत्त्यभावप्रतियोगित्वं पारिजातस्यार्थलभ्यम् । एवं च खाधिकरणवृत्तिविजातीयशोभाविरहप्रयोजकस्वाभावकत्वमुभयविशेषणतया पर्यवस्यतीति संक्षेपः । ___ कुत्रचिच्छेषेण यथा
'उत्कण्टकाविलसदुज्ज्वलपत्रराजि
रामोदभागनपरागतरातिगौरी ।
एवं च । 'मुक्ताभिः सलिलरयास्तशुक्तिपेशी मुक्ताभिः कृतरुचिसैकतं नदीनाम् । स्त्रीलोकः परिकलयांचकार तुल्यं पल्यकैविगलितहारचारुभिः स्वैः ॥' इत्यादौ मुक्तारुचिरत्वहारचारुत्वधर्मयोरपि भेदाभावात्साक्षादेव वस्तुप्रतिवस्तुभावो द्रष्टव्यः । शरकाण्डेति । मालविकाग्निमित्रनाटके मालविकामवेक्ष्याग्निमित्रस्योक्तिः । पाण्डुत्वं नायकविरहात् । परिमितेति । विरहदौर्बल्येन बहूनामलंकाराणामग्रहणात् । माधवो वसन्तः । परिणतेति । पाण्डुत्वाक्षेपः । अर्थलभ्यमिति । नलाभावस्य सभायां प्रतीतौ सभावृत्त्यभावप्रतियोगित्वं नलस्य तुल्यवित्तिवेद्यम्, पारिजातस्य भामा