________________
३६
काव्यमाला |
'शर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव । अलंचक्रे स पर्यङ्कमङ्कसंक्रमितप्रियः ॥'
अत्र मीचन्द्रिकयोर्विम्बप्रतिबिम्बभावः । आश्लिष्टाङ्कसंक्रमितपदाभ्या
मेव धर्मो विशेषणतयोक्तः । विशेष्यतया यथा -
'संझा उत्थइओ दीसइ गअणम्मि पडिवआअन्दो |
रत्तदुऊलन्तरिओ व्व णहणिहाओ णववहूए || '
अत्र संध्याराग रक्तदुकूलयोर्विम्बप्रतिविम्बभावः । उत्स्थगितान्तरितपदाभ्यामेक एव धर्मो विशेष्यतयोक्तः । संध्यारागदुकूलयोः स्थगितान्तरितपदार्थविशेषणीभूतत्वात् ।
यथा च
'अज्जाइ णीलकञ्चअभरिदुच्चरिअं विहाइ थणवट्टम् । जलभरि अजलहरन्तरदरुग्गअं चन्दविम्बं व्व ॥'
इह नीलकञ्चुकजलधर योबिम्बप्रतिबिम्बभावः । उच्चारितोद्गतपदाभ्यामेक एव धर्मो विशेष्यतया निर्दिष्टः । अन्ये तु —
'विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति ।'
इत्यादौ शुद्धोऽपि वस्तुप्रतिवस्तुभावः संभवति । न ह्ययं विम्बप्रतिबिम्बभावः, वैमल्यनिष्कलङ्कत्वयोर्भेदाभावात् । न च - सौन्दर्यादिनैवात्रो -
नुरोधेन धर्मत्वं तदवच्छेदकसाधारणमेव ग्राह्यम् । वस्तुतस्तु बिम्बप्रतिबिम्बभावापन्नो धर्मः क्वचिच्छुद्धः क्वचिचोभयसाधारणधर्मान्तरविशिष्ट इति तस्यैव द्वैविध्यदर्शन तात्पर्यम् । 'संध्यारागस्थगितो दृश्यते गगने प्रतिपदाचन्द्रः । रक्तदुकूलान्तरित इव नखनिघातो नववध्वाः ॥' नखनिघातपदमर्ध चन्द्राख्यनखक्षत परम् । स्पष्टार्थमाहयथा चेति । अजा नवयुवत्यां देशी । 'नवयुवतेर्नीलकञ्चुकभरितोच्चारितो विभाति स्तनपटः । जलभरितजलधरान्तरदरोद्गतं चन्द्रबिम्बमिव ॥' अत्र कशुकजलधरयोबिम्बप्रतिबिम्बभावः । कञ्चुकांशे नीलत्वं शब्दोपात्तम् । जलधरांशे तु जलभरितत्वगम्यं इति बिम्बप्रतिबिम्बभावविशेषणतया वस्तुप्रतिवस्तुभावः । तद्विशेष्यतया तु मूल एव व्याख्यात इत्युभयेोरेकत्रोदाहरणमेतदिति विशेषः । उपमानादिवृत्तित्वमपि वस्तुप्रतिवस्तुभावस्थले कुत्रचिदानयतां मतमाह — अन्ये त्विति । एवं च क्वचिद्धर्मवृत्तित्वमपि पूर्वोक्तश्छलेऽस्त्येव । परंतु दीक्षितोक्तनियम एवं निष्प्रमाणक इत्येषां विशेषः ।
-