________________
अलंकारकौस्तुभः ।
३६५ अत्र प्रियस्पर्शाश्रयाभिन्नकरैः खस्पर्शो विरहिण्या चन्द्रं प्रति प्रार्थ्यतोऽमृतमयेत्यादिविशेषणैः प्रत्याय्यते । तथा हि-आयेनामृतमयतया खभावशुद्धत्वेन परोपकारप्रवृत्तियोग्यत्वम् ।चन्द्रस्य विप्रकृष्टनायकस्पर्शानुपपत्तिमाशङ्कय गगनशेखरेति । तथा चातितुङ्गतया तत्स्पर्शोपपत्तिरिति भावः । रजनीमुखतिलकत्वेन स्त्रीषु पक्षपातसूचनम् । स्यादेतत् । व्यर्थविशेषणत्वं तावदोष इति निर्विवादम् । ततश्च तदभावः । पुष्टार्थत्वं दोषाभावमात्रं न त्वलंकार इति । ___ अत्र प्राञ्चः-एकधर्मनिष्ठतया बहूनां साभिप्रायविशेषणानामुपादाने विच्छित्तिविशेषोऽनुभवसिद्धतया दुरुपह्नव इत्यलंकारमध्ये पठित इति ।
अत्र दीक्षिताः-श्लेषयमकादावपुष्टार्थत्वस्य दोषत्वाभावात् तत्रैकविशेषणस्य साभिप्रायत्वेऽप्यलंकारत्वं दुर्वारम् । एवं च 'सुधांशुकलितोतंसः-' इत्यादावपि तत्संयुक्तमित्याहुः । ___ अन्ये तु-श्लेषाद्यतिरिक्तस्थले साभिप्रायविशेषणोपादानेन विच्छित्तिविशेषस्वीकारे तस्यालंकारत्वं दुर्वारम् , अन्यथा च श्लेषादिस्थलेऽपि विच्छित्तिविशेषो नास्तीत्यपि वक्तुं शक्यम् । यदि च तत्रानुभवः प्रमाणमित्युच्यते । तदान्यत्रापि तुल्यमिति नपृथगलंकारतेति दीक्षितमतं दूषयित्वा 'सुन्दरत्वे सत्युपस्कारकत्वम्, अलंकारत्वम् , चमत्कारापकर्षकाभावत्वं च दोषाभावत्वम् , तयोश्च क्वचिदेकत्र समावेशेऽपि नैकेनान्यस्यान्यथासिद्धिः। उपाधेरसंकरात् । यथा ब्राह्मणस्य मूर्खत्वं दोषः, विद्या तु दोषाभावो गुणश्च, तद्वदिहापि । अन्यथा काव्यलिङ्गमप्यलंकारो न स्यात् , निहेंतुरूपदोषाभावात्मकत्वात् । न च दोषत्वाभावेनैव संग्रहोऽस्तु, अलंकारत्वेन गणनं किमर्थमिति वाच्यम् । दोषाभावान्तरवैलक्षण्यज्ञापनाय तदुपपत्तेः अन्यथा गुणीभूतव्यङ्ग्यत्वेन संगृहीतायाः समासोक्तेरप्यलंकारमध्ये गणना न स्यादिति प्राहुः ॥
यत्तु-विशेष्यस्य साभिप्रायत्वे परिकराङ्कुरः । यथा
'नरसिंह महीपाल कीर्तिस्त्रिपथगा तव । न कस्य भवति श्लाघ्या पुनाना भुवनत्रयम् ॥'