________________
३५४
काव्यमाला। तत्र रसगङ्गाधरकृतः-अनुमानालंकारेणैव गतार्थत्वादनयोरतिरिक्तत्वानुपपत्तिः । न चात्र हिमवत्त्वव्याप्यशैत्यवानिति ज्ञाने सत्यपि समानविषये प्रत्यक्षसामग्र्या बलवत्त्वात् 'अयं हिमवान्' इति प्रत्यक्षमेवोत्पद्यते न त्वनुमितिः, अतस्तयोः कथमनुमानेऽन्तर्भाव इति वाच्यम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञानमात्रस्यैवात्रानुमानालंकारत्वेन परिभाषणात् । प्रत्यक्षस्यापि तादृशज्ञानजन्यसत्त्वात् । वस्तुतः-प्रतिबन्धकवशादनुमित्यनुत्पादेऽपि तत्करणत्वस्यानपायात् । फलायोगव्यवच्छेदस्य करणतायामप्रयोजकत्वात् । एतेन विशेषदर्शनस्येतरकोटिभानमात्रनिवर्तकतया हिमाद्रिप्रत्यक्षस्य चक्षुःसंयोगादिरूपस्वसामग्रीवशादेवोत्पत्तेस्तत्र विशेषदर्शनस्यानुपयुक्ततया पारिभाषिकापि नात्रानुमितिरिति परास्तम् ।
तत्रोच्यते--अनुमितिरेवात्रालंकारो नत्वनुमानात्मकः परामर्ष इति ह्युक्तमेव । तथा च व्याप्यवत्ताज्ञाने सत्यपि अनुमित्युद्भावे कथमित्यनुमानालंकारसंभवः । परामर्षस्यानलंकारत्वात् । अन्यथा निश्चयान्तसंदेहालंकारोच्छेदापत्तिः तत्रापि विशेषदर्शनजन्यत्वसत्त्वात् । अत एव परामर्षस्यैवालंकारत्वे लिङ्गकरणतापक्षे तस्य शब्दोपात्ततया अनुमानालंकारस्य लक्ष्यत्वव्यङ्गयत्वानुपपत्तिः । ज्ञानकरणतापक्षेऽपि ज्ञानस्य वाच्यत्वाद्यनुपपत्तिरेव । अतोऽनुमितिरेवात्रालंकारः । सा च क्वचिद्वाच्या क्वचिच्च व्यङ्गयेत्युपपद्यत इति खयमेवोक्तम् । इदानीं तु परामर्षसत्त्वमात्रेणानुमानालंकार इत्यभ्युपगम्यत इति पूर्वापरविरोधो युक्तिविरोधश्च । शिष्टं सामान्यप्रकरणे वक्ष्याम इति दिक् ॥
इत्यनुमानम् । परिकरं निरूपयति-- __साभिप्रायविशेषेण विन्यासः परिकरः प्रोक्तः ।
यथा
'अमअमअ गअणसेहर रअणीमुहतिलअ चन्द दे छिवसु । छित्तो जेहिं पिअअमो ममं वि तेहिं चिअ करेहिं ।' १. 'अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश ।
स्पृष्टो यैः प्रियतमो मामपि तैरेव करैः ॥' [गाथा० १११६]