________________
अलंकारकौस्तुभः ।
३२३ अत्र किसलयत्वादिजातीनां तप(तापय)तीति क्रियया सह तजनकतानवच्छेदकत्वरूपो विरोधः । प्राग्वत्परिहारः ।
जातेद्रव्येण यथा मम'प्राणेश्वरो गुरुजनेन कृतान्नियोगाद्देशान्परानगमदित्युदयत्यसूया । दुर्दैववैभवबलात्सखि सांप्रतं यच्चन्द्रोऽपि वहिरभवत्क इहापराध्येत् ॥'
इह चन्द्रत्वमेकव्यक्तिवृत्तित्वान्न जातिरिति द्रव्यशब्दोऽयं तेन वह्नित्वजातेस्तत्समवेतत्वाभावरूपविरोधः । प्राग्वदेव परिहारः । यद्यपि परिमाणभेदेन द्रव्यभेदावश्यकत्वात्तैजसतया संतानान्तरोत्पत्त्यावश्यकत्वाच्च चन्द्रस्यानेकत्वमेवास्ति । तथा च समानकालीनानेकवृत्तिधर्म एवात्र जातित्वेन विवक्षितः । चन्द्रस्य च क्षणादेव भेदेन बहुत्वेऽप्येकक्षणे तदभावात् । चन्द्रपदस्य वाचकत्वमुक्तम् । एवमन्यत्रापि बोध्यम् । गुणस्य गुणेन यथा'सरसा वि सूसइ चिअ जाणइ दुक्खाइं मुडइ(हि)अआ वि ।
रत्ता वि पण्डुर चिअ जाआ वरई तुह विओए ॥' । इह रक्तत्वपाण्डुरत्वगुणयो रक्तत्वसमानकालीनतदवच्छेदकानवच्छेद्यत्वरूपो विरोधः । रक्तपदस्यानुरागार्थत्वात्परिहारः । गुणस्य क्रियया यथा'यदिन्दावानन्दं प्रणयिनि जने वा न भजते ___ व्यनत्यन्तस्तापं यदयमतिधीरोऽपि विषमम् । प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डुमधुरं
__ वपुः क्षामं क्षामं वहति रमणीयश्च भवति ॥' अत्र धैर्यगुणस्य तापव्यक्तिक्रियया तत्प्रतिबन्धकत्वरूपो विरोधः । विरहावस्थाप्राबल्यात्तन्निरासः ।
• १. 'सरसापि शुष्यत्येव जानाति दुःखानि मुग्धहृदयापि ।
रक्तापि पाण्डुरैव जाता वराकी तव वियोगे ॥' [गाथा० ६।३३]