________________
३२२
काव्यमाला।
.. हंहो मानस बालिश प्रतिपथं प्रत्याशमुद्रीविकां
___ कुर्वन्तं नयनातिथिं पुनरहो कर्तुं किमाकाङ्क्षसि ॥ अत्र द्वितीयपादे वायुत्ववह्नित्वजात्योर्विरोधः । यथा वा'रभसादपि(मि)सर्तुमुद्यतानां दयितानां सखि वारिदो विवस्वान् । रजनी दिवसोऽन्धकारमर्चिविपिनं वेश्म विमार्ग एव मार्गः ॥
अत्र घनत्वादिजातीनां सूर्यत्वादिजात्या विरोधः । द्वादशसूर्यव्यक्तिवृत्तितया तस्य जातित्वात् । जातिपदं च सामान्यमात्रपरम् । तेनान्धकारत्वादीनामजातित्वेऽप्यदोषः । जातीनामेकार्थासमवायित्वमेव विरोधबीज रागोत्कर्षेण तेषां प्रतिबन्धकत्वाभावादविरोधः । जातेर्गुणेन यथा'परं जोण्हा उण्हा गरलसरिसो चन्दणरसो
खदक्खारो हारो रअणिपवणा देहतवणा । मुणाली बाणाली जलदि अ जलद्दा तणुलदा __ वरिट्ठा जं दिट्ठा कमलवअणा दीहणअणा(सा सुणअणा)॥' अत्र ज्योत्स्नात्वजातेरौष्ण्येन स्पर्शविशेष रूपगुणेन सह तनिष्ठकार्यतानिरूपितसमवायिकारणतानवच्छेदकत्वरूपो विरोधः। विरोध(रह)वर्णनात्परिहारः। जातेः क्रियया यथा'किसलअकरचरणा वि हु कुवलअणअणा मिअङ्कवअणा वि । अहह णवचम्पअङ्गी तह वि तावेइ अच्चरिअम् ॥' १. 'परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः
___ क्षतक्षारो हारो रजनिपवना देहतपनाः । मृणाली बाणाली ज्वलति च जलार्दा तनुलता
वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥' [कर्पूरमञ्जरी ॥११] २. 'किसलयकरचरणापि खलु कुवलयनयना मृगावदनापि ।
अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥' [कर्पूरमञ्जरी २।४२]