________________
अलंकारकौस्तुभः ।
३११ तत्र दशरथस्य विश्वामित्रं प्रत्युक्तौ मानैषीरिति निषेधो व्यङ्गय इति संक्षेपः।
इत्याक्षेपः । विभावनां निरूपयति
हेतुं विनापि कार्य यत्रोक्त स्याद्विभावना सा तु । यत्र प्रसिद्ध कारणनिषेधेऽपि तत्कार्याविर्भावो वर्ण्यते सा विभावना । विशिष्टा कारणनिरपेक्षा भावना कार्योत्पत्तिर्यत्रेति व्युत्पत्तेरित्यर्थः । न च कारणाभावे कार्योत्पत्त्यनुपपत्तिः । तदतिरिक्तहेत्वाक्षेपेण तदभावात् न चैवमपि कारणात्प्रागेव कार्योत्पत्तिरूपायामतिशयोक्तौ तदन्तर्भावेष्विति वाच्यम् । तत्र कार्यकारणयोः पौर्वापर्यनिबन्धनश्चमत्कारोऽत्र तु कारणाभावेऽपि कार्योत्पत्तिनिबन्धन इति भेदात् ।
किं च । तत्र पश्चाद्भाविन एव कारणस्य कार्यजनकत्वं कार्याव्यभिचारित्वसूचनार्थ विवक्षितम् । अत्र तु निषेधप्रतियोगित्वेऽन्यहेतुसापेक्षैव कार्योत्पत्तिरिति विशेषः ।
तत्र हेत्वभावः क्वचित्स्वरूपेण । यथा'शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सासं चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदयपरितापं व्रजसि किम् ॥' अत्र विरहरूपहेत्वभावेऽपि तत्कार्यपरितापोत्पत्तिः । तद्विषयकज्ञानवत्त्वेऽपि आत्मनस्तच्छरीरावच्छिन्नमालविकासंयोगाद्यभावस्य तद्धेतोः सत्त्वादविरोधः । क्वचिदवच्छेदकाभावात् ।
१. अत्र कियान्पाठस्त्रुटितः प्रतिभाति, 'यत्तु' पदखारस्यात्. २. 'भावोऽस्त्विति' इति पाठो भवेत्.