________________
अलंकारकौस्तुभः । प्रतीपभेदोऽयमिति काव्यप्रकाशकारादयः ।
सर्वखकारादयस्तु–यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः कंचिद्विशेषमाक्षिपति स आक्षेपः । यथा'न्यस्ता न भ्रुकुटिर्न बाष्पसलिले नाच्छादिते लोचने
नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः । नन्वामनपयोधरं रसवशाद्विस्रब्धमालिङ्गितो
भतास्या नियमस्य भीषणमरुन्नायं वयस्यो नु मे ॥ अत्र भीषणमरुति तन्निषेधो बाधितत्वादपकाराजनकत्वपर्यवसितो दुर्योधनो भानुमतीप्रतियोगिकालिङ्गनप्रयोजकत्वरूपं विशेषमाक्षिपति । 'भानुमत्यालिङ्गितम्' इत्यस्य शाब्दत्वेऽपि मरुततत्प्रयोजकत्वस्याक्षेपमात्रगम्यत्वात् । न च सति विशेषणे हीति न्यायेन मरुति भीषणत्वस्यैवायं निषेध इति वाच्यम् । विशेषणे निषेधस्य बाधाभावे हि तन्न्यायावतारः । अत्र च भीषणत्वस्यापि मरुति सत्त्वेन तन्निषेधस्यापि बाधाविशेषात् । तावतापि प्रकृतसंगतेश्चेति । यथा'युष्मच्छासनलङ्घनाम्भसि मया मनेन नाम स्थितं ' प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि । हेलोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा
नद्येमं दिवसं ममापि न गुरुर्नाहं विधेयस्तव ॥ अत्र युधिष्ठिरं प्रति भीमोक्तौ न गुरुरिति निषेधो बाधितः सन् 'त्वदुक्त्या कौरवैः संधिर्मया न कार्यः' इत्यत्र पर्यवसितः तदुच्छेदकावश्यकत्वं व्यञ्जयति । वस्तुतस्तु न निषेधः । यथा'मा याहीत्यपमङ्गलं व्रज पुनः स्नेहेन हीनं वच
स्तिष्ठेति प्रभुता यथारुचि कुरुष्वेवाप्युदासीनता । नो जीवामि विना त्वयेति वचनं संभाव्यते वा न वा
तत्किं शिक्षय नाथ यत्समुचितं वक्तुं त्वयि प्रस्थिते ॥'