________________
काव्यमाला।
तत्राद्यो यथा'सच्चं जाणइ द8 सरिसम्मि जणम्मि जुजए राओ।
मरउ ण तुमं भणिसं मरणं वि सलाहणिजं से ॥' अत्र त्वय्यत्यन्तानुरागवशेन नायिकाया विरहावस्थावशेन मरणमपि संभावितम् । तस्मात्त्वया तत्संगमे यत्नः क्रियतामिति विवक्षितम् । तच्च विरहदुःखस्य प्रत्येकं वक्तुमशक्यत्वात्समागमप्रार्थनायाश्च याच्ञाभङ्गभीत्या दुष्करत्वात् न त्वां भणिष्यामीति प्रतिषिद्धम् । द्वितीयो यथा
'त्वं जीवितं त्वमसि मे हृदयं द्वितीयं - त्वं कौमुदी नयनयोरमृतं त्वमेव । इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
तामेव शान्तमथवा किमिहोत्तरेण ॥' यथा वा मम'त्वत्साक्षात्करणक्षणप्रभृतिदृङ् न प्रेक्षतेऽर्थान्तरं
म्लानिं शारदिकातपप्रतिहता सा केतकीवाश्नुते । निःश्वासाहतिसाध्वसादिव भृशं बिम्बाधरो वेपते
तत्सङ्गव्यवसायहायिनि कृतं प्रोक्तेन नाचक्ष्महे ॥ अत्र प्रोक्तापि विरहावस्था तत्प्रतीकारानुद्यते तद्वचनवैयर्थ्यमित्यभिप्रायेण तदुक्तिप्रतिषेधः ।
केचित्त-उपमेयेनोपमानकार्यसंपत्त्या तद्वैयोक्तिराक्षेपः-इत्याहुः । यथा'किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं
वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।। वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ।' १. 'सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः ।। म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः ॥' [गाथा० १।१२]