________________
देषविलय एव । श्रत एवायं जगवडुपदेशोऽपि - सबेसिंपि याएं, बहुविहवत्तवयं हिसामित्ता । तं सबणयविसु, जं चरणगुण हि साहू ॥ १ ॥ ति चरणगुण स्थितिश्च परममाध्यस्थ्यरूपा, न रागद्दैष विलयमन्तरेणेति तदर्थमवश्यं प्रयतितव्यमित्युपदेशसर्वस्वम् ॥
यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया, ब्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः, सोयं न्यायविशारदः स्म तनुते कांचिन्नयप्रक्रियाम् ॥ १ ॥ ग्रन्थे दूषणदर्शने निविशते दुर्मेधसां वासना, जावाजिज्ञतया मुदं तु दधते ये केपि तेभ्यो नमः । मन्दारद्रुमपल्लवेषु करनाः किं नो नृशं देषिणो ये चास्वाद विदस्त देकर सिकाः श्लाघ्यास्त एव क्षितौ ॥ २ ॥ कृत्वा प्रकरणमेतत्प्रवचनजक्त्या यदर्जितं सुकृतम् । रागद्वेषविरहतस्ततोऽस्तु कल्याणसंप्राप्तिः ॥ ३ ॥
कृतं च भट्टारक श्रीहीरविजयसूरिशिष्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यपंडितश्रीलाभ विजयगणिशिष्य पंडितजीतविजयसतीर्थ्य पंडितनयविजयगणिशिप्यपंडितयशोविजयगणिना ||