________________
॥ अथ नयरदस्यप्रकरणम् ॥ ऐन्छश्रेणिनतं नत्वा वीरं तत्वार्थदेशिनम् ॥ परोपकृतये ब्रूमो रहस्यं नयगोचरम् ॥ प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नयः । पुनयस्याप्यधिकृतांशाप्रतिक्षेपित्वात्तत्रातिव्याप्तिवा-1 रणाय प्रकृतवस्त्वंशग्राहीति । एवं च तत्पदे तन्निन्नप्रतिपंश्रिधर्मोपस्थिते न दोषः । प्रकृतवस्त्वंशग्राहित्वमपि पुनयेऽतिव्याप्तमेवेति तदितरांशाप्रतिक्षेपीति । सप्तनंगात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशेऽतिव्याप्तिवारणायाध्यवसायपदम् । रूपादिग्राहिणि रसायप्रतिक्षेपिण्यपायादिप्रत्यदप्रमाणेऽतिव्याप्तिवारणाय विशेषपदम् । नयाः प्रापकाः साधका निवर्तका निर्नासका उपलंजका व्यञ्जका इत्यनान्तरमिति नाष्यम् । अत्र प्रापकत्वं प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमनावापन्ननानाधर्मकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निवर्तकत्वमनिवर्तमान निश्चितस्वालि-Y प्रायकत्वम् । निर्जासकत्वं शृंगग्राहिकया वस्त्वंशज्ञापकत्वम् । उपलंनकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मावगाहित्वम् ।। व्यञ्जकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । एवं च पदार्थ प्रतिपादयन्नपि नाष्यकारस्तत्त्वतो लक्षणान्येव सूत्रितवान् । यद्येवं नयानामध्यवसायरूपता, कगं तर्हि "उवएसो सोए णाम ति" सत्यं, नयजन्योपदेशे नयपदोपचारात्।। तथाप्येते तंत्रान्तरीयाः, स्वतंत्रा बा चोदकपदग्राहिणो मतिजेदेन विप्रधाविता, उजयथापि मिथ्यात्वमिति चेन्न, प्रमाणापेदत्वेनैतेषामुजयवैशक्षण्यात् । स्वविषयप्राधान्यरूपस्वतंत्रतायाश्च मिथ्यात्वाप्रयोजकत्वात् । गौणत्वमुख्यत्वयोर्हस्वत्वदी-/