SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवीतरागेच्यो नमः ॥ ॥ न्याय विशारदोपाध्याय श्री मद्यशो विजय प्रणीताध्यात्मोपनिषत् ॥ ‘॥ ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयंभुवम् ॥ अध्यात्मोपनिषन्नामा ग्रंथोऽस्मानिर्विधीयते ॥ १ ॥ श्रात्मानमधिकृत्य | स्याद्यः पंचाचारचारिमा | शब्दयोगार्थ निपुणास्तदध्यात्मं प्रचक्षते ॥ २ ॥ रूढ्यर्थ निपुणास्त्वाद्दृश्चित्तं मैत्र्यादिवासितम् ॥ अध्यात्मं निर्मलं बाह्यव्यवहारोपबृंहितम् ॥ ३ ॥ एवंभूतनये ज्ञेयः प्रथमोऽर्थोऽत्र कोविदैः ॥ यथायथं द्वितीयोऽर्थो व्यव - हारर्जुसूत्रयोः ॥ ४ ॥ गलन्नयकृतप्रांतिर्यः स्याद्विश्रांतिसंमुखः ॥ स्याघाद विशदालोकः स एवाध्यात्मज्ञाजनम् ॥ ५ ॥ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुछेन छाग्रहमनः कपिः ॥ ६ ॥ अनर्थयैव नार्थाय जातिप्रायाश्च युक्तयः ॥ हस्ती हन्तीति वचने प्राप्ताप्राप्त विकल्पवत् ॥ ७ ॥ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः ॥ कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ८ ॥ श्रागमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् ॥ श्रतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥९॥ अंतरा केवलज्ञानं उद्मस्थाः खस्वचक्षुषः ॥ हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ॥ १० ॥ शुद्धाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् ॥ जौतहंतुर्यथा तस्य पदस्पर्श निषेधनम् ॥ ११ ॥ शासनात्राणशक्तेश्च बुद्धैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य तच्च नान्यस्य कस्यचित् ॥ १२ ॥ वीतरागोऽनृतं नैव ब्रूयात्तवेत्वभावतः ॥ यस्तवाक्येष्वनाश्वासस्तन्महामोहजृंजितम् ॥ १३ ॥ शास्त्रे पुरस्कृते तस्माघीतरागः पुरस्कृतः ॥ पुरस्कृते पुनस्तस्मिन्नियमात् सर्वसिद्धयः ॥ १४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy