________________
रत्नाकरः। 828
विचार- दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि नियुक्तकनकानि दारूणि यत्र स तथा तम्, 'सुसंविद्धचक्कमंडलधुरागं ' सुष्ठु संविद्धे चक्रे यत्र, मंडलाच - वृत्ता च धूर्यत्र स तथा तम्, 'कालायससुकयनेमिजंतकम्मं' कालायसेन- लोहविशेषेण सुष्ठु कृतं नेमे: चक्रमण्डलमालाया यन्त्रकर्मबन्धनक्रिया यत्र स तथा तम् । ' आइण्णवरतुरयसुसंपउतं ' जात्यप्रधानाश्वैः सुष्ठु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं कुशलनररूपो यश्छेकसारथि:- दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तम्, 'सरसयबत्तीसतोणपरिमंडियं' शराणां शतं प्रत्येकं येषु ते शरशता: तैर्द्वात्रिंशता तूणै:- शरधिभिः परिमण्डितो यः स तथा तम्, ' सकंकडवडेंसगं ' सहकण्टकैः सकवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैः यः स तथा तम्, सचावसरपहरणावरणभरियजोहजुद्धसज्जं ' सहचापशरैर्यानि प्रहराणानिखङ्गादीनि आवरणानि - स्फुरकादीनि तेषां भृतः अत एव योधानां युद्धसज्जश्च युद्धप्रगुणो यः सः तथा तम्, ' चाउग्घंटं आसरहं जुत्तामेव 'त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यते इति, ' अयमेयारूवं ' ति प्राकृतत्वादिममेतद्रूपम् वक्षमाणरूपं 'सरिसए 'त्ति सदृशक:- समानः सरित्तए 'त्ति सदृशत्वक, ' सरिव्वए 'त्ति सदृक्वया:, ' सरिसभंडमत्तोवगरण 'त्ति सदृशी भाण्डमात्रा - कोशप्रहरणादिरूपा, उपकरणं च कंटकादिकं यस्य सः तथा तम्, ' पडिरहं ' त्ति रथं प्रति ' आसुरुते ' त्ति आशुशीघ्रं रुप्तः - कोपोदयाद्विमूढो, ' रुप लुप विमोहने' इति वचनात् स्फुरितकोपलिङ्गो वा, यावत्करणादिदं दृश्यम् -' रुट्ठे कुविए चंडिक्कए ' त्ति तत्र रुष्टः- उदितक्रोध:, कुपित: प्रवृद्धकोपोदयः, चाण्डिकित: सज्जातचाण्डिक्य:- प्रकटितरौद्ररूप इत्यर्थः । ' मिसिमिसिमाणे 'त्ति क्रोधाग्निना दीप्यमान इव एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः । ठाणं 'त्ति पादन्यासविशेषलक्षणम् 'ठाइ ' करोति ' आयतकण्णायतं ' ति आकृष्टः सामान्यतः स एव कर्णायत आकर्णमाकृष्ट आयतकर्णायतस्तम्, ‘एगाहच्चं ' ति एका हत्या - हननं प्रहारो यत्र जीवितव्यरोपणे तदेकाहत्यम् तद्यथा भवति- ' कूडाहच्चं 'ति कूटे इवतथाविधपषाणसंपुटादौ कालविलम्बाभावसाधर्म्यादाहत्या- हननं यत्र तत्कूटाहत्यम् । ' अत्थामो 'त्ति अस्थामासामान्यतः शक्तिविकलः, ' अबले 'ति शरीरशक्तिवर्जित:, ' अवीरीए 'त्ति मनःशक्तिवर्जितः ' अपुरिसक्कारपरकम्मे ' त्ति व्यक्तम्, नवरं - पुरुषकार:पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः ' अधारणिज्जं ' ति आत्मनो धारणं कर्त्तुमशक्यं ' इतिकट्टु ' त्ति इति कृत्वा, इति हेतोरित्यर्थ:, — तुरए णिगिण्हइ ' ति अश्वान् गच्छतो निरुणद्धीत्यर्थ: । ' एगंतमंतं ' ति एकान्तं - विजनं अंतं भूमिभाग । ' शीलाई '
"
॥७२॥
•%%%%%%%%
မိမိ မိသာ
भगवती
विचारा:
॥७२॥