________________
विचाराः
विचार- | सातवेदनीयमित्यर्थः । ' कज्जइ ' त्ति क्रियते भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्त्तिवीतरागोऽपि हि भगवतीरत्नाकरः। ॐ सक्रियत्वात्सातवेद्यं कर्म बध्नातीति भाव: ' से ' त्ति ईर्यापथक्रिया ' पढमसमयबद्धपुट्ठ' त्ति (प्रथम समये) बद्धा कर्मतापादनात्स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीणा - अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिताउदयमुपनीता, किमुक्तं भवति ? वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च सम्भवतीयेवं व्याख्यातं तृतीये तु निर्जीर्णा, ततश्च' सेयकाले ' त्ति एष्यत्काले ' अकम्मं वावि' त्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्णं कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति ' अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तं यदि संयतोपि साश्रवः कर्मबध्नाति तदा सुतरामसंयतः, अनेन च जीवनाव: कर्म्मजलपूर्यमाणतयार्थतोऽधो निमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्ध्वगमनसामर्थ्यादुपनीतमवसेयम् । इति । भगवतीतृतीयशतकतृतीयोद्देशके ८०६ पत्रौ १३७ पत्रे ॥ ६ ॥
118611
အာသာ
ननु अष्टमीचतुर्दश्यादौ वेलावृद्धिहानी किं निबन्धने ? इत्याशङ्कानिराचिकीर्षया लिख्यते
·
कम्हा णं भंते ! लवणसमुद्दे चाउद्दसमुद्दिट्ठिपुण्णिमासिणिसु अइरेगं वड्ढइ वा हायड् वा जहा जीवाभिगमे लवणसमुद्दवत्तवया णेयव्वा, जाव लोकट्ठिई, जण्णं लवणसमुद्दे जंबुद्दीवं दीवं णो उप्पीलति । णो चेव णं एगोदगं करेइ ( लोयट्ठिई ) लोगाणुभावे सेव भंते ! भंते ! जाव विहरइ ' त्ति । "वृत्तिर्यथा-' भंते ' त्ति इत्यादि । ' अतिरेगं 'ति तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः । ' लवणसमुद्दवत्तव्वया नेयव्व' त्ति जीवाभिगमोक्ता, कियद्दूरं यावदित्याह - ' जाव लोयट्टिई ' इत्यादि । सा चैवमर्थतः कस्माद्भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्वपि अतिरेकेण बर्द्धते हीयते वा ? । इह प्रश्ने उत्तरम् - लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुर्मध्यमे त्रिभागे वायूदके उपरितने तूदकमिति । तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसंख्या वाय्वादियुक्तत्रिभागवन्तः सन्ति । तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु
ဒီသသသသသ ကာ
ပြော
118211