________________
विचार-
रत्नाकर:
11911
भयार्थं तद्भयदानं बुधैर्जेयम् ॥१॥३, 'कालुणिएइ य' त्ति कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४, लज्जया-हिया दानं यत्तल्लज्जादानमुच्यते । उक्तं च-"अभ्यर्थितः परेण तु, यद्दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थं, लज्जायास्तद्भवेद्दानम् ॥१॥"५, इति, 'गारवेणं च' त्ति गौरवेण-गर्वेण यद्दीयते तद्गौरवदानमिति । उक्तं च-" नटनर्तमुष्टिकेभ्यो, दानं संबन्धिबथुमित्रेभ्यः । यद्दीयतेयशोऽर्थं, गर्वेण तु तद्भवेद्दानम् ॥ १॥"६, अधर्मपोषकम् दानमधर्मदानम्, अधर्मकारणत्वाद्वाऽधर्म एवेति । उक्तं च" हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद्दीयते हि दानं, तज्जानीयादधर्माय ॥१॥" ७ इति, धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा । उक्तं च-“सममणितृणमुक्तेभ्यो, यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥१॥" ८, इति 'काहीइ य'त्ति करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत्करिष्यति दानमुच्यते ९, तथा कृतं ममानेनैतत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति दानमुच्यते । उक्तं च-“शतशः कृतोपकारो, दत्तं च सहस्रशो ममानेन । अहमपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ॥ १ ॥” इति १० । इति श्रीस्थानाङ्गदशमस्थानके ४४० प्रतौ ४११ पत्रे ॥ १९ ॥
॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि स्थानाङ्गकियद्विचारनामा तृतीयस्तरङ्गः ॥ ३ ॥
||२१||