________________
विचार-19 रत्नाकरः
11४९
वस्तुनि विषये आगमः-केवलादिः स्यात्-भवेत्तादृशेनेति शेषः । आगमेन व्यवहारं-प्रायश्चितदानादिकं प्रस्थापयेत्-प्रवर्त्तयेन शेषैः, आगमेऽपि षड्विधे केवलेनावथ्यबोधकत्वात्तस्य तदभावे च मनःपर्यायेणैवं प्रधानतराभावे इतरेणेति, अथवा 'नो' नैव 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् यथा-यत् प्रकारं तत्र श्रुतं स्यात्तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । 'इच्चेतेहिं' इत्यादि निगमनं सामान्येनेति । यथा यथासौ तत्रागमादिः स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् । इति स्थानाङ्गपञ्चमस्थानकाद्वितीयोद्देशके ४४० प्रतौ २६६ पत्रे ॥ १६ ॥
ननु धर्मपुण्ययोः कः प्रतिविशेष ? उच्चते, धर्मः श्रुतचारित्रादिः । पुण्यं तत्फलभूतं शुभं कर्म । अयमेव भगवतीवृत्तावभिप्रायस्तथाऽत्रापि•णवविहे पुन्ने पन्नेत्ते । तं जहा-अन्नपुन्ने १ पाणपुन्ने २ वत्थपुन्ने ३ लेणपुन्ने ४ सयणपुन्ने ५ मणपुन्ने ६ वतिपुन्ने ७ कायपुन्ने ८ नमोक्कारपुन्ने ९। इति। वृत्तिर्यथा-' पुन्ने' त्यादि, पात्रायान्नदानाद्यस्तीर्थङ्करनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र । नवरं 'लेण' त्ति लयनं-गृहम्, शयनं-संस्तारकः, मनसा गुणिषु तोषात्, वाचा प्रशंसनात्, कायेन पर्युपासनात् नमस्काराच्च, यत्पुण्यं तन्मनःपुण्यादीनि । उक्तं च “ अन्नं १ पानं २ च वस्त्रं ३ च, आलयः ४ शयना ५ सनम् ६। शुश्रूषा ७ वन्दनं ८ तुष्टिः ९, पुण्यं नवविधं स्मृतम् ॥१॥” इति स्थानाङ्गनवमस्थानके ४४० प्रतौ ३३७ पत्रे ॥ १७ ॥
दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाड़ीकुर्वते, तच्च तेषां भूताविष्टहसितप्राय, सिद्धान्ते स्थापनायाः सत्यत्वेनोक्तत्वात् । सचायम्
“दसविधे सच्चे पन्नत्ते । तं जहा-जणवय १ संमय २ ठवणा ३, नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९, दसमे ओवम्मसच्चे य १०। ॥ १॥ " वृत्तिर्यथा-' जणवय' त्ति सत्यशब्दः प्रत्येकमभिसंबन्धनीयः ततश्च जनपदेषु-देशेषु दद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकता प्रयुज्यमानं सत्यं-अवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नांनाजनपदेष्विष्ठार्थप्रतिपत्तिजनकत्वव्यवहारप्रवृत्तेरेवं शेषेष्वपि भावना कार्येति । 'समय' त्ति संमतं च तत्सत्यं चेति संमतसत्यम्, तथाहि-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव kel
४९||