________________
विचार
8 विचाराः
तत्कारणत्वमुक्तं द्रष्टव्यमिति । इयं चास्य सूत्रस्य भावना । अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति । अथवा यो हि जीवो स्थानाङ्ग रत्नाकरः। 88 जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारंभेण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया । अथ नैतदेवं निर्विशेषणत्वात्सूत्रस्याल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वादतः कथमभिधीयते स विशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशषणेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम् यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति । न हि समानहेतोः कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् । तथा-' समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से निज्जरा कज्जइ अप्पतराए से पावे कम्मे कज्जइ' इति भगवतीवचनश्रवणादवसीयते नैवेयं 8. क्षुल्लकभवग्रहणरूपा अल्पायुष्टा । नहि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् । अथाप्रासुकदानस्य भवतूक्ता अल्पायुष्टा प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वादविरुद्धत्वाच्चेति । अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते इतराभ्यां तु को विचार इति ?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात्, प्रासुकस्यापि अल्पायुष्टाफलत्वाविरोधात्, उक्तंच भगवत्याम्- “ समणोवासयस्स णं भंते ! तहारूवं असंजयअविरयअपडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपावखाइमसाइमेणं पडिला माणस किं कज्जइ ?, गोयमा ? एगंतसो पावे कम्मे कज्जइ णो से काइ निज्जरा कज्जइत्ति " । यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति । नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ? यतः-“ अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः ॥ १ ॥ ” तथा गृह जिनभवनकारणफलमुक्तं- “ एतदिह भावयज्ञः, सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या, नियमादपवर्गबीजमिति ॥ १ ॥ " तथा - " भन्नड़ जिणपूयाए, कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगो ॥ २ ॥ असदारंभपवत्ता, जं च गिही तेण तेसि विन्नेया । तन्निव्वित्तिफलच्चिय, एसा परिभावणीयमिदं ॥ ३॥ " दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासका:
113211
ခိုင်ခိုင်ခံ
8888888888888
113211