________________
विचार
केचिच्चानागमज्ञा मुनीनामशुद्धाशनादिदानं नरकायुर्बन्धफलमिति वदन्ति, तच्चानागमिकम्, अल्पायुष्कताया एवागमे तत्फलत्वेनोक्तत्वात्, रत्नाकरः। 88 अत्राशङ्कासमाधाने तु एतत्सूत्रतात्पर्यावबोधावगम्ये, तच्चेदम्
“ तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति । तंजहा-पाणे अइवाइत्ता भवति १ मुसं वइत्ता भवति २ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति ३ इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति ” इति वृत्तिर्यथा-' तिहिं ठाणेहिं इत्यादि ' त्रिभि: स्थानैः कारणैर्जीवाः प्राणिनः 'अप्पाउयत्ताएत्ति' अल्पं- स्तोकं आयुर्जीवितं यस्य सोऽल्पायुः तद्भावस्तत्ता तस्यै अल्पायुष्कतायै तदर्थं तन्निबन्धनमित्यर्थः । कर्मायुष्कादि । अथवा अल्पमायुर्जीवितं यत् आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्मायुर्लक्षणं प्रकुर्वन्ति बध्नन्तीत्यर्थः । तद्यथा- प्राणान् स प्राणिनोऽतिपातयितेति शीलार्थे तृनि तृन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः । एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं स्वभाव नेपथ्यादिर्वा पस्य स तथारूपो दानोचित इत्यर्थः तं श्राम्यति - तपस्यतीति श्रमणस्तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थी । प्रगता असवोऽसुमन्तः प्राणिनो यस्मात्तत्प्रासुकम् 888 तन्निषेधादप्रासुकं सचेतन मित्यर्थः । तेन इष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तन्निषेधादनेषणीयं तेन । अश्यते 928 भुज्यते इत्यशनं- ओदनादि । पीयते इति पानं-सौवीरकादि । खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्त्यमानत्वादिति खादिमंभक्तौषधादि । स्वादनं स्वाद:, तेन निर्वृत्तं स्वादिमं च दन्तपावनादीति । समाहारद्वन्द्वः तेन, गाथाश्चात्र असणं ओदणसत्तुग मुग्ग जगाराइ खज्जगविही य । खीरादि सूरणादि मंडगपभिई य विन्नेयं ॥ १ ॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं च तहा ॥ २ ॥ भत्तोसं दंताई खज्जूरं नालिकेरदक्खाइं । कक्कडिअंबगफणसाइ, बहुविहं खाइमं नेयं ॥ ३ ॥ दंतवणं तंबोलं, चित्तं अज्जगकुहेडगाईयं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइत्ति " ॥ ४ ॥ प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यच भवति । ते अल्पायुष्कतया कर्म प्रकुर्वन्तीति प्रक्रमः । 'इच्चेतेहिंति' इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैर्जीवा अल्पायुष्कतया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन
113911
66
ာ ာ ာ ာ ာ ာ ာ ာ ာင်
113911