________________
विचाररत्नाकरः
||२९॥
"रसाश्रितं दुर्मदवादिवादग्रीष्मोष्मकाषङ्गषमाप्तशब्दम् ।
सतां सदा शस्यफलाप्तिहेतुं, प्रीत्याऽऽश्रये श्रीजिनशासनाब्दम् ॥ १॥" अथ क्रमायाताः श्रीस्थानाङ्गविचारा लिख्यन्ते-तत्र प्रथमं कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासया लेश्यास्वरूपविषये मतान्तरजिज्ञासया च सटीकं सूत्रद्वयं लिख्यते
“एगा कण्हपक्खियाणं वग्गणा एगा सुक्कपक्खियाणं वग्गणा श एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा २।" वृत्तिर्यथा-' एगा कण्हपक्खियाणं वग्गणा इत्यादि 'कृष्णपाक्षिकेतरयोर्लक्षणम्-" जेसिमवडो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खी य॥१॥ इति” एतद्विशेषितोऽन्यो दण्डकः । 'एगा किण्हलेसाणं इत्यादि' । लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह-' श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः' । तथा- 'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥ इति' । इयं य शरीरनामकर्मपरिणतिरूपा, योगपरिणतिरूपत्वात् । योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता । “ योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्महर्ते शेषे योगनिरोधं करोति, ततोऽयोगत्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते योगपरिणामो लेश्येति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः । यस्मादुक्तं कर्म हि कार्मस्य कारणम् अन्येषां च शरीराणामिति । तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १ तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वाग्योगः २ तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोगः ३ ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति" । अन्ये तु व्याचक्षते-कर्मनिष्यन्दो लेश्येति, सा च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तज्जन्यो जीवपरिणाम इति । इयं च षट्प्रकाराजम्बूखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयम् । इति श्रीस्थानाङ्गप्रथमस्थानके ४४० प्रतौ ३१२३२ पत्रे ॥१॥ ||२९॥
पारम्पर्यवर्जिताः केचन विशिष्टक्षमाश्रमणप्रत्युपेक्षणादिकं गुरुपरम्परागतं योगविधिस्वरूपमजानाना दुष्करतराचाम्लादिलघुकर्मैक- hel