________________
विचाररत्नाकरः
1॥२८॥
सद्वैराग्यविवेकिता विनयिता सौभाग्यभाग्यादिजं, जाग्रद्यस्य यशो दिशो धवलयन्नाद्यापि किं माद्यति ॥ १०॥ । हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, काचिच्चित्तचमत्कृतिः स हि गुरुर्देवीगणोपासितः । चित्रं किं त्विदमद्य तेन गुरुणा काले कलौ जाग्रति, म्लेच्छः स्वच्छमतिः कृतः कृतधिया भूमीश्वरोऽकब्बरः ॥ ११ ॥ यं विश्वैकगुरुं ननाम सुमति ङ्कापतिर्मेघजी-संज्ञो विज्ञजनैः समं समयवित्त्यक्त्वाऽधिपत्यं महत् । हंसः केनचिदंहसा निपतितश्चेत्पल्वले पङ्किले, स्वच्छः किं तत एति नातिरयतः सन्मानसो मान्सम् ॥ १२ ॥ यस्योद्गायति डब्बराभिधसरो नित्यं निजाङ्केशय-प्राणित्राणभवं यशो नवमिव व्यालोलवीचिस्वनैः । क्रोडक्रीडदनेकविष्किरगरुत्पातारवोन्मर्दलं, झिल्लीझङ्कृतितालमन्तिकगतैः पारापतैर्लङ्कृतम् ॥ १३ ॥ यौ शत्रुजयरैवताचलगिरी सङ्कोचमाप्तौ पुरा, म्लेछोत्सर्पितचंडदंडभयतः शीर्षस्थदेवालयौ । येनैतावभयावुभौ तु विहितौ दीप्तौषधीदीपिकौ, रात्रावप्युरुलोकचक्रकलितौ नित्योत्सवौ तिष्ठतः ॥ १४ ॥ विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जरो, मन्त्री सौकृतकृत्यमन्त्रविषये मित्रं मनःप्रीणने । मञ्जुषा समयार्थसार्थनिकरे भूषा स्वकीयान्वये, मान्यो मानविमानिमानवनुतः श्रीवाचकः सोऽभवत् ॥ १५ ॥ यच्चारित्रमखिन्नकिन्नरगणादाकर्ण्य कर्णामृतं, सभ्यानीक्षितुमक्षमः समभवल्लज्जाविनमाननः । सर्वत्रोद्गतनेत्रपत्रपटलस्तत्रापि लज्जाकुलः, स्वं धर्तुं न शशाक पाकमथनो ध्यायन्नहिल्याननम् ॥ १६ ॥ श्रीमद्वीरपरंपरासुलतां सन्तापितां सागरैः क्षारोमिप्रकरानुकारिवचनालोक्य येनामुना।
कृत्वा वैजयपक्षमंडपमिमां तत्राधिरोप्यादरात्, प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥ १७ ॥ अष्टभिरर्थतः कुलकम्
तदनुमनुजमान्योऽनन्यसामान्यभाग्यस्त्रिभुवनगुरुपट्टे सूरिशक्रो बभूव । विजयिविजयसेनः फेनपिंडावदातः, प्रसृमरवकीर्तिर्मूर्तिमान् पुण्यराशिः ॥ १८ ॥
||२८१॥