________________
विचार-18 श्रीतीर्थोद्गालिकप्रकीर्णके ।। ६१॥ अभिप्रायस्तु स्पष्ट एव ।
Hel चाकत्सारत्नाकर छद्मस्थेनापि सह केवली विहरतीत्यक्षराणि लिख्यन्ते
विचारः निद्वविअअट्ठमयट्ठाणे, सोसियकसाए जिइंदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ॥ ४२ ॥ इति गच्छाचारप्रकीर्णके ॥ ६२ ॥
द्वाविंशतेः परीषहाणां मध्ये उष्णाः के ? शीतलाश्च के ? इत्यभिप्रायो लिख्यते11२६४।
" इत्थीसक्कारपरीसहा य, दो भावसीयला एए । सेसा वीसं उण्हा, परीसहा होंति नायव्वा ॥१॥” इत्याचारङ्गनिर्युक्तौ
समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यते
पुष्पवृष्टिरत्राहुः परे-कथमम्लानपुष्यप्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्तिसाध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः-नैतदेवम्, प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाहुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि पुष्पाणां तत्र प्रकीर्णत्वात् । यदागम:-" बिंटवाई सुरहिं, जलथलयं दिव्वकुसुमनीहारी । पयरंति समंतेणं, दसद्भवनं कुसुमवासं ॥” परमत्र बहुश्रुता एवं समादधते-यथा | निरुपमाऽचिन्त्याहतप्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामादिसत्त्वसम्भवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥ ६४ ॥
स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ॥ ६५ ॥ ___ अशुद्धैः शुद्धैर्वाऽशनपानभेषजादिभिर्लानस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते
||२६४॥