________________
गच्छपरिमाणं
विचार-1 तथाऽप्यसामर्थ्ये एकमपि दिनं परिहर, इति सङ्ग्रहगाथासमासार्थः । इति श्रीबृहत्कल्पवृत्तौ तृतीयखंडे तृतीयद्दोशके ॥४१॥ रत्नाकरः।
चउद्दस दस य अभिन्ने, नियमा सम्मं तु सेसए भयणा । यस्य चतुर्दशपूर्वाणि दशपूर्वाणि अभिन्नानि परिपूर्णानि सन्ति, | तस्मिन्नियमात्सम्यक्त्वम् । शेषे च किञ्चिदूनदशपूर्वधरादौ सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः । इति बृहत्कल्पे १५ पत्रे ॥ ४२ ॥
अथ साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि लिख्यन्ते
नो कप्पइ निग्गंथाण वा निग्गंथीण वा सचित्तकम्मए उवस्सए वत्थु । कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मए उवस्सए ||२५८॥ Meal वत्थु इति । वृत्तिर्यथा-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् । कल्पते पुनरचित्रकर्मणि उपाश्रये निर्ग्रन्थानां
निम्रन्थीनां वा वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तरः-निद्दोष सदोसे वा, सचित्तकम्मे उ आणमादीणि । सइकरणं विकहा वा, बीअं असई य वसहीए ॥ १॥ निषि वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः ये च तादृशे वा चित्रकर्मखचिते वेश्मनि पूर्वभोगान् बुभुजिरे तेषां स्मृतिकरणम्, उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र वसतावसत्यां तत्रापि वसेत् । अथैनामेव नियुक्तिगाथा व्याख्याति-तरुगिरिनदीसमुद्दा, भवणा वल्ली लया वियाणा य । निद्दोसचित्तकम्मे, | पुन्नकलससोत्थियादी य ॥ १॥ तरव: सहकारादयो, गिरयो हिमवदादयो, नद्यादयो गङ्गासिन्धुप्रभृतयः, समुद्रा लवणोदादिकाः,
भवनानि गृहाणि, वल्लयो नागवल्ल्यादयः, लता माधवीचम्पकलतादयः, तासां वितानं निकुरंबं, तथा पूर्णकलशः स्वस्तिकादयश्च ये मालिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् । इति बृहत्कल्पप्रथमोद्दशे १६५ पत्रे ॥ ४३ ॥
अथ गच्छपरिमाणं लिख्यते
तिगमाईया गच्छा, सहस्सबतीसई उसभसेणे । थंडिल्लंपि य पढमे, वयंति सेसेवि आगाढे ॥ १॥ त्रिकादयस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति ? एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य समुदायरूपत्वात्, तस्य त्रयाणामधस्तादभा
वादिति । तत ऊर्द्धं ये चतुःपञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्टपरिमाणं न प्राप्नोति । किं Jeel पुनस्तत् ? इतिचेदत आह ' सहस्सबत्तीसई उसभसेणे त्ति । द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणं यथा
||२५८॥