________________
विचार- 1888| चत्तारि अच्छंति ॥ ५ ॥ इत्यपि गच्छाचारप्रकीर्णके 'दंसणियारं कुणई' इत्येतद्गाथा १३२ वृत्तौ ॥ ११ ॥ रत्नाकरःनि अथ साधूनां चतुर्मासकं विना पीठफलकोपभोगः कर्तुं न कल्पते, इत्यभिप्रायो लिख्यते
सच्छंदयारिं दुस्सीलं, आरंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ॥ १० ॥ व्याख्या-स्वच्छन्देन स्वाभिप्रायेण, न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तम्, तथा दुष्टं शीलं आचारो यस्य स दुःशीलस्तम्, तथाऽऽरम्भाः पृथिव्याधुबवणानि, उपलक्षणत्वात्संरभ
समारम्भावपि, तत्र संरम्भ:-सङ्कल्पः, समारम्भस्तु परितापकरः । उक्तं च-“ संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो ||२४५
उद्दवओ, सुद्धनयाणं तु सव्वेसि ॥१॥" तत्र स्वान्ययोः प्रवर्तकस्तम् । तथा पीठकं-फलकं, आदिशब्दात् पट्टिकादयस्तत्र प्रतिबद्धः कारणं विनाऽपि ऋतुबद्धकाले तत्परिभोजीत्यर्थः तं, ऋतुबद्धकाले पीठकादिग्रहणे महान् दोषः । उक्तं च-जे भिक्खू उडुबाद्धियं सेज्जासंथारयं परं पज्जोसवणाओ उवाइणेइ उवाइणेतं वा सातिज्जति, इति श्रीनिशीथसूत्रद्वितीयोद्देशके । अथैतच्चूर्णिः-उडुबद्धगहियं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-सव्वंगिया उ सेज्जा, दोहत्थद्धं च होइ संथारो । अह संथडा व सेज्जा, तत्पुरिसो वा समासो उ ॥१॥ इत्यादि । इति श्रीगच्छाचारप्रकीर्णकवृत्तौ ।। १२ ।।
अथोत्सर्गतस्तावद्गृहस्थानां सिद्धान्ताध्ययनं न कल्पते, अपवादतस्तु दीक्षाभिमुखादिस्तस्य षट्जीवनीकायाध्ययनं यावत् सूत्रार्थाभ्यां, पिण्डैषणाध्ययनं यावदर्थतश्च पाठयितुं कल्पते, इत्यभिप्रायो लिख्यते
पढंतु साहूणो एयं, असज्झायं विवज्जिउं ॥ १३६ ॥ इत्यादि । व्याख्या-पठंतु-व्यक्तवाचा सूत्रतोऽर्थतश्च कंठगतं कुर्वंतु साधवोमोक्षसाधनतत्परा मुनयः उपलक्षणत्वात्साध्व्योऽपि, ननु यदुक्तं साधुसाध्व्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ? उच्यते-न पठन्त्येव, यदुक्तं-श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते-जे भिक्खू वा भिक्खूणी वा अण्णउत्थिय वा गारत्थियं वा वाएइ, वाएंतं वा सातिज्जति । अस्य चूर्णि:-गिहिअण्णतिस्थिया ण वाएयव्वा, इत्थ दसमउद्देसाओ अत्थो जहा अण्णउस्थियं वा गारस्थियं वा ण वाएति, अण्णतिस्थिया अण्णतिस्थिणीओ अहवा गिहत्था गिहत्थीओ, त्ति तथाभावे कारणे वाएज्जावि ' पव्वज्जाए' गाहा-गिहि अण्णपासंडियं पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जाव सुत्तत्थो, अस्थओ जाव पिंडेसणा, एस गिहत्थाइसु अववाओ त्ति ।। इति
॥२४५॥