SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः । ॥१९७॥ | हिंसाए । जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सो उ ॥ ९६९ ॥ ' णाणी ' ज्ञानमस्यास्तीति ज्ञानी - सम्यग्ज्ञानयुक्त: कर्मक्षयार्थमुत्थित उपयुक्तो हिंसायां च न स्थितः । तथा यतते - कर्मक्षयार्थं प्रयत्नं करोति शठभावरहितो यलं करोति न पुनर्मिथ्याभावेन, सम्यग्ज्ञानयुक्त इत्यर्थः । तथा अहिंसार्थमुत्थित: उद्यतः, किन्तु सहसा कथमपि यत्नं कुर्वतोऽपि प्राणिवधः सञ्जातः स एवंविद्योऽवधकः साधुः ।। ९६९ ।। तस असंचेअयओ, संचेययओ अ जाणि सत्ताणि । जोगं पप्प विणस्संति, णत्थि हिंसाफलं तस्स ।। ९७० ।। ' तस्स तस्येव प्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्यासञ्चेतयतः अजानानस्य किं सत्त्वानि कथं प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च तथा सञ्चेतयतः कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारित: ततस्तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति, तत्र तस्य नास्ति साधोर्हिसाफलं साम्परायिकं संसारजननम् । यदि परमीर्यापथप्रत्ययं कर्म भवति तदैकत्र समये बद्धमन्यत्र क्षपयति ।। ९७० ।। इति श्रीओघनिर्युक्तिसूत्रवृत्तौ ॥ १६ ॥ ।। इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते विचाररत्नाकरे मध्यभागे श्रीमूलसूत्रविचारसमुच्चयनाम्नी कलिका समाप्ता ॥ ॥ समाप्तश्चायं मध्यभागः ॥ अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राप्तः समाप्तिं किल मध्यभागः ॥ १ ॥ 3 €3 ॥ सर्वेषामवबोधाय, सर्वभाषामयीमिव । सर्वदोषापहां सार्वा, सर्वविद्गामुपास्महे ॥ १ ॥ अथ श्रीछेदग्रन्थविचाराः, तत्र च पूर्वं श्रीनिशीथसूत्रभाष्यचूर्णिविचारा यथा तत्रापि अयोजितसौत्रकल्पं केवलमौर्णिकं साधुभिर्न व्यापारणीयमित्यक्षराणि लिख्यन्ते इक्कं पाउरमाणो, खोमियं उन्निए लहुमासो । दुन्नियपाउरमाणो, अंतो खोमी बहिं उन्नी ॥ १ ॥ छप्पइयपणगरक्खा, भूसाउज्झायणा य परिहरिया । सीयत्ताणं च कयं तेण य खोमं न बाहिरओ ॥ २ ॥ एतच्चूर्णिर्यथा इक्कं खोमिअं- कार्पासिकं पाणिज्जइ उन्नियमेगं न पाउणिज्जइ अह पाउणइ मासलहुं च से पछित्तं, पच्छद्धं कंठं ॥ १ ॥ खोमियस्स अंतो उन्निअस्स बहिं परिभोगे ပြာသာ •%%%%%%%%%%%%%% ॥१९७॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy