________________
उत्तराध्ययनविचाराः
विचार
दुविहा खलु पडिलेहा, छउमत्थाणं च केवलीणं च । अभितरबाहिरिया, दुविहा दव्वे य भावे य ॥ ४०३ ॥ द्विविधा प्रत्युपेक्षणा रत्नाकरः।
कतमेन द्वैविध्येन ? द्विधा इत्यत आह-छद्मस्थानां केवलिनां च, सा चैकेका द्विविधा, याऽसौ छद्मस्थानां साद्विधा ग्राह्या बाह्या अभ्यन्तरा hool च, या च केवलिन साऽपि अभ्यन्तरा बाह्या च, 'दव्वे भावे य' त्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा
भावविषयेति, तत्र केवलिप्रत्युपेक्षणां प्रतिपादयन्नाह-पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता, छउमत्थाणं तु
पडिलेहा ॥ ४०४ ॥ प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनाम्, 'संसत्तमसंसत्त' त्ति संसक्तद्रव्यविषया ||१९४||
असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवति । आह-यथोपन्यासस्तथा निर्देश इति न्यायात्प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पश्चात्केवलिनामिति ? उच्यते, प्रधानत्वात्केवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति । आह-तत्कथं प्रथममेवैवमुपन्यासो न कृत ? इत्युच्यते तत्पूर्वकाः केवलिनो भवन्तीति अस्यार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेन केवलिनः प्रत्युपेक्षणा कृता, पश्चाच्छद्मस्थानामिति । आह-तत्कथं प्रत्युपेक्षणां कुर्वन्ति ? इति-संसज्जइ धुवमेयं, अपेहियं तेण पुव्वपडिलेहे । पडिलेहियंपि संसज्जइ त्ति संसत्तमेव जिणा ॥ ४०५ ॥ संसज्यते-प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यथा तु पुनरेवं संविद्रते इदमिदानी वस्त्रादिप्रत्युपेक्षितमपि उपभोगकाले संसज्यते तदा' संसत्तमेव जिण' त्ति संसक्तमेव जिना:केवलिनः प्रत्युपेक्षन्ते, न त्वनागतमेव पलिमंथदोषात्, उक्ता केवलिद्रव्यप्रत्युपेक्षणा, इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाह-नाऊण वेयणिज्जं, अइबहुयं आउयं च थोवागं । कम्मं पडिलेहेडं, वच्चंति जिणा समुग्घायं ।। ४०६ ॥ ज्ञात्वा वेदनीयं कर्म अतिप्रभूतं आयुष्कं च स्तोकं कर्म प्रत्युपेक्ष्य ज्ञात्वेत्यर्थः, किमित्यत आह- ' वच्चंति जिणा समुग्घायं 'ति जिना:-केवलिनः समुद्घातं व्रजन्ति । अत्र च भावः-कर्मण उदय औदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाह-संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी, हिंडिताहिंडिया चेव ॥ ४०७ ॥ 'संसत्त' त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च
छद्मस्थानां भवति प्रत्युपेक्षणा, अत्रचोदक आह-युक्तं तावत्संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं असंसक्तस्य तु कस्मात्प्रत्युपेक्षणा क्रियते ? So आचार्य आह-यथा आरक्षकयोर्हिण्डिताहिण्डितयोर्यथासङ्घयेन प्रसादविनाशौ सञ्जातौ, तथाऽत्रापि द्रष्टव्यम् । तथाहि-किञ्चिन्नगरम्, तत्थ
||१९४||