________________
विचार- 88| ॥१॥ छउमत्थमरण ११ केवलि १२, वेहाणस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिन्ना १५, इंगिणि १६ पाओवगमणं च १७ रत्नाकरः
॥ २ ॥ सत्तरसविहाणाई, मरणे गुरुणो भणंति गुणकलिया । तेसिं नामविभत्तिं, वोच्छामि अहाणुपुव्वीए ॥ ३ ॥ व्याख्याTool तत्रावीचिमरणम्-वीचिविच्छेदस्तदभावादवीचिर्मरणं नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवाद्विचटनम् ।
१, अवधिमरणम्-मर्यादामरणं यानि नरकादिभवनिबन्धनतया कर्मदलिकान्यनुभूय प्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा
तद्रव्यावधिमरणम्, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भावनीयम् २, अन्तिकमरणम्11१८९।।
यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय प्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति एवं क्षेत्रादिष्वपि वाच्यम् ३, बलात्मरणमाह संजमजोगविसन्ना, मरंति जे तं बलायमरणं तु । भग्नव्रतपरिणतीनां वतिनामेवैतत् ४, वशार्त्तमरणम्-इंदियविसयवसगया, मरंति जे तं वसट्टे तु ॥ १॥ दीपशिखावलोकनाकुलितपतङ्गवत् ५, अन्तःशल्यमाह-लज्जाइ गारवेण य, बहुस्सुयमएण वावि दुच्चरियं । जे न कहंति गुरूणं, न हु ते आराहगा भणिया ।। २ ।। गारवपंकनिवुड्डा, अइयारं जे परस्स न कहति । दसणनामचरित्ते, ससल्लमरणं भवे तेसिं ॥ ३ ॥ पुनर्गौरवाभिधानेनास्यैवातिदुष्टताख्यापनार्थ परस्येत्याचार्यादेः । एतस्यैव फलमाह-एअं ससल्लमरणं, मरिऊण महब्भए दुरंतंमि । सुइर भमंति जीवा, दीहे संसारकंतारे ॥४॥६, तद्भवमरणमाह-मोत्तुं अकम्भभूमिअ, नरतिरिए सुरगणे अनेरइए। सेसाणं जीवाणं, तब्भवमरणं तु केसंचि ॥ ५ ॥ तु शब्दस्तेषामपि सङ्घयेयवर्षायुषामेवेति विशेषव्यापकः ७ । बाल ८ पंडित ९ मिश्र १० मरणान्याह-अविरयमरणं बालं, मरणं विरयाण पंडिअं होइ । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ ६॥ ८, ९, १०, एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे आह-मणपज्जवोहिनाणी, सुअमइनाणी मरंति जे समणा । छउमत्थमरणमेयं ११, केवलिमरणं तु केवलिणो १२ ॥ ७ ॥ वैहायसगृधपृष्टमरणेऽभिधातुमाह-गिद्धाइ भक्खणं गिद्धपिट्ठ १३ उब्बंधणाई वेहासं १४ । एए दुन्नि वि मरणा, कारणजाए अणुन्नाया ॥ ८ ॥ न तु निःकारणे यतो भणियं-"भावियजिणवयणाणं, ममत्तहिरयाण णत्थि हु विसेसो । अप्पाणंमि परंमि य, तो वज्जे पीडमुभओ वि ॥१॥" एत एव भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरुक्तः । उक्तं च-“ चत्तारि विचित्ताई, विगईनिज्जूहियाइ चत्तारि । संवच्छरे य तिन्नि य, एगंतरियं च आयामं ॥१॥"
१८९||