________________
' विचाररत्नाकरः
विचाराः
गृही चतुर्वर्षशतीं, छद्मस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्रथनेमिस्तु केवली ।। १८५ ॥ राजीमत्या अपि तथा, कौमारं मूलसूत्र8. छद्मवासितम् । केवलित्वं च सर्वोऽपि, पर्यायो रथनेमिवत् ।। १८६ ॥ नेमेर्वर्षशतेनाग्रे, ययौ राजीमति शिवम् । यद्रक्तो माममुचन्नेमिः, ॐ सिद्धि तां किल वीक्षितुम् ॥ १८७ ॥ माहेन्द्रेऽगाच्छिवा देवी, समुद्रविजयोऽपि च । दशार्हा अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवत्
E
1190811
॥ १८८ ॥” मेस्तु त्रीणि शतानि गृहस्थपर्याय इत्यत्रापि नेमितो रथनेमिज्येष्ठभ्रातैव । नेमिचरित्रे तु- " इतश्च नेमिरनुजो, रथनेमिः ॐ स्मरातुरः । जज्ञे राजीमती पश्यन्निन्द्रियाणां वशंवदः ॥ २५८ ॥ ४० ॥ तथा असुरादयो यावद्वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थं न लभन्ते, अन्तःक्रियां पुनःकुर्युः । इति प्रज्ञापना २० पदवृत्तौ । वसुदेवचरिते तु नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमेरवतक्षेत्रेऽस्यामवसर्पिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्तीति ॥ ४१ ॥ एवं भूयांसि अन्यान्यपि मतान्तराणि शास्त्रे दृश्यन्ते, तेन 888 धर्मार्थिना कुत्रापि कदाग्रहो न कार्यः । पुरातनैर्महापुरुषैर्बहुश्रुतैर्यदि किमपि नाहत्यनिर्णीतं तर्हि आधुनिकैर्मन्दप्रज्ञैः किमिव निर्णेतुं शक्यम् ?, ततो यदा यो ग्रन्थो वाच्यते तदा तद्ग्रन्थस्यमुच्यते इति जगद्गुरुश्रीहीरविजयसूरीणामनुशिष्टिरिति ॥
।।इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे मतान्तरसमुच्चयनामा आवर्त्तः समाप्तः ॥
84%%%%
मिथ्यात्वविषविसंस्थूलनरनिकरविकारसंदगदङ्कारम् । विधिना श्रीजिनवचनं ध्येयं धीमद्भिरुरुरचनम् ॥ १ ॥ अथ श्रीमूलसूत्रविचारा लिख्यन्ते तत्र तावदावश्यकविचाराः, तत्र च प्रथमं युक्तिरसिकहृदयप्रमोदाय युक्तिशाली इन्द्रियविषयविचारो
लिख्यते
पुढं सुणेइ सद्दं, रूवं पुण पासई अपुढं तु । गंधं रसं च फासं च बद्धपुटुं वियागरे ॥ ६ ॥ वृत्तिर्यथा - ननु व्यञ्जनावग्रहप्ररूपणद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्राक् प्रतिपादिता, ततः किमर्थमेष पुनः प्रयासः इति ? उच्यते तत्र प्रक्रमे गाथाव्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोष:, श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं, शृणोति- गृह्णाति परिच्छिन्नतीति भावः स्पृष्टं तरौ वायुवदालिङ्गितमात्रम्, किमुक्तं भवति ? शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माण्यत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति
आनश्यक
विचारा:
1196811