________________
विचाररत्नाकरः
1१५२॥
त्ति अभवत् ' तद्वर्णको 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि, पसंतडिंबडमरं रज्जं पसाहेमाणे विहरइ' इत्येतदन्तः, तत्र निरयावलिकामहाहिमवानिव महान् शेषराजापेक्षया तथा मलय:- पर्वतविशेषो मन्दरो-मेरुः महेन्द्रः-शक्रादि देवराजः तद्वत्सार:-प्रधानो यः स तथा,
विचाराः तथा प्रशान्तानि डिम्बानि-विज्ञाः डमराणि-राजकुमारादिकृतविड्वरा यस्मिन् तत्तथा, (राज्य) प्रसाधयन्-पालयन् विहरति-आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्या वर्णको यथा-' सूमाल । जाव विहरति ' यावत्करणादेवं दृश्यम्-' सुकामालपाणिपाया अहीणपंचिंदियसरीरा' अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्याः सा तथा, 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुण:-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता शब्दत्रयस्थाने शकंध्वादिदर्शनादुपपेतेति स्या, 'माणुम्माणपमापडिपुन्नसुजायसव्वंगसुंदरंगा' तत्र मान-जलस्य द्रोणप्रमाणता कथं ? जलस्यातिभृते कुंडे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं-अर्द्धभारप्रमाणता कथं ? तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु-स्वाङ्गलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिंस्तत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा, 'ससिसोमाकारकंतपियदंसणा' शशिवत्सौम्याकार कान्तं च-कमनीयं अत एव प्रियं द्रष्टणां दर्शनं-रूपं यस्या सा तथा, अत एव सुरूपा स्वरूपतः सा पद्मावती देवी ' कूणिएणं सद्धिं उरालाई भोगभोगाई भुंजमाणी विहरइ' भोगभोगान्- अतिशयवद्धोगान्, ' तत्थ णं' इत्यादि, 'सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम्, अन्यच्च कोमुइरयणियरविमलपडिपुन्नसोवयणा' कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्णं सौम्यं वदनं यस्या सा तथा, 'कुंडलुल्लेहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखा:-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा, 'सिंगारागारचारुवेसा'शृङ्गारस्य-रसविशेषस्यागारमिवागारं तथा, चारुवेषो-नेपथ्यं यस्या सा तथा ततः कर्मधारयः, 'काली नामं देवी' श्रेणिकस्य भार्या सा कूणिकस्य राज्ञक्षुल्लजननी-लघुमाताऽभवत्, सा य कालीदेवी सेणियस्य रन्नो इट्ठा वल्लभा कान्ता काम्यत्वात् प्रिया-सदा प्रेमविषयत्वात् ' मणुन्ना' सुन्दरत्वात्-' नामधिज्जा' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः 11१५२॥ सा तथा, 'वेसासिया' विश्वसनीयत्वात् 'सम्माया' तत्कतकार्यस्य संमतत्वात ' बहमया' बहशो बहभ्यो वाऽन्येभ्यः सकाशान्मता liool