________________
विचार-18 मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गलिभिः केशुषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तम्, रत्नाकरः
प्राकृतत्वात्पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन कुसुमसमूहेन पुष्पपुञ्जोपचारकलितं, पुष्पपुञ्ज एव उपकारः पुष्पपुञ्जोपचारः तेन कलितं-युक्तं करोति कृत्वा च 'चंदप्पभवइरवेरुलियविमलदंडं ' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्स सः तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपगन्धोत्तमानुविद्धा,
प्राकृतत्वात्पदव्यत्ययः, तां धूपवर्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपघटीतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी 119२७11
प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अट्ठसयविसुद्धगंथजुत्तेहिं' ति । विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः, यो ग्रन्थः-शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैरर्थसारैरपुनरुक्तैर्महावृत्तैस्तथाविध-देवलब्धेः प्रभावः एषः, संस्तौति संस्तुत्य वामं जानुमञ्चति-उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ' इति निपातयति लगयतीत्यर्थः, त्रिकृत्व:-त्रीन् वारान् मूर्धानं धरणितले नमयति नमयित्वा च ईषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कनकत्रुटितस्तंभितौ भुजौ 'संहरति ' सोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वैवमवादीत्-'नमोत्थु णं' इत्यादि । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तिमन्दरोद्देशके ३१३ प्रतौ १७२ पत्रे ॥ ५ ॥
केचिच्चाज्ञानिनो विद्याचारणादिलब्धिमतः श्रमणान् लब्ध्युपजीविनः प्रमादिनो न किञ्चिदेते इत्यादिभिर्वचनैः प्रतिमावन्दनवैरेण निन्दन्ति, तच्च तेषामनन्तसंसारकारणम्, यतस्ते हि महानुभागाः सुतरां नमस्याः यदेतेषां प्रभावेण लवणसमुद्रो जंबूद्वीपं नावपीडयति । तथा च सिद्धान्तः
कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेइ ? नो उप्पीलेइ ? नो चेव णं एक्कोदगं करेइ ? गोयमा ! जंबुद्दीवेणं दीवे भरहेरवएसु वासेसु अरिहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मणुया पगइभद्दया
पगइविणीया पगइउवसंता पगइपयणुकोहमाणमायालोभा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया, तेसि णं पणिहाते लवणसमुद्दे hel जंबुद्दीवं दीवं नो उव्वीलेइ नो चेव णं एक्कोदगं करेइ इति । वृत्तिर्यथा-' कम्हा णं' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जंबूद्वीपं
119२७||