________________
विचार- गतिः-गमनं, 'ठिड़' त्ति अवस्थानं, 'उववाओ' त्ति देवतया भवनं, 'इट्ठी इव' ति ऋद्धिः परिवारादिसंपत् । 'जुती इव'त्ति औपपातिकः
Nodel विचाराः . द्युतिः-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोगउपदर्शनार्थः । 'जसे इव' त्ति यश:ख्यातिः । वा शब्दो विकल्पार्थः, क्वचित्पठ्यते-' उहाणे इ वा कम्मे इव' ति । तत्रोत्थानं-उर्धीभवनं, कर्म-उत्क्षेपणादिका क्रिया, 'बले इव' त्ति बलं-शारीरः प्राणः, 'वीरिए इव' ति वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरक्कमे इव' त्ति पुरुषकारः
पुरुषत्वाभिमानः स एव निष्पादितफलः पराक्रमः, हंते ति' एवमेवार्थः, 'तेणं देवा परमलोगस्स आराहग' त्ति ते अकामनिर्जरालब्धदेवभवा 11992118
व्यन्तरा: परलोकस्य-जन्मान्तरस्य निर्वाणसाधनानुकूलस्याराधका:-निष्पादकाः इति प्रश्नः, नो इणढे त्ति नायमर्थः 'समढे' त्ति समर्थ:-सङ्गतः इत्युत्तरम्, अयमभिप्राय:- ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युः त एव अवश्यंतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः । इत्यौपपातिकसूत्रवृत्तौ ७० प्रतौ ६२ पत्रे ॥१॥
पुनरपि जिनप्रतिमारिपुप्रतिबोधाय अम्मडेन यथा अन्यतीर्थिकदेवान्यतार्थिकपरिगृहीर्ताहत्प्रतिमानिषेधपूर्वकमर्हत्प्रतिमावन्दनाद्यङ्गीकृतं, | तथा लिख्यते
“अम्मडस्स णो कप्पड़ अन्नउत्थिया वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा णन्नत्य अरिहंते वा अरिहंतचेझ्याणि वा” इति । वृत्तिर्यथा-' अन्नउस्थिए व 'त्ति अन्ययूथिकाआर्हतसापेक्षयाऽन्ये शाक्यादयः 'चेइयाई' त्ति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः । 'णन्नत्थ अरिहंतेहिं व' त्ति न कल्पते इह योऽयं नेति निषेधः सोऽन्यत्रार्हद्भ्यः अर्हतो वर्जयित्वेत्यर्थः । इत्यौपपातिकसूत्रवृत्तौ ८३ प्रतौ ६७ पत्रे ॥२॥
॥ इकि श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्याय श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे औपपातिकविचारनामा प्रथमस्तरङ्गः ॥१॥ यस्मात्प्रादुर्भवद्रत्नैरयत्नैर्भूष्यते सताम् । कण्ठपीठं नमस्तस्मै, श्रुतरोहणभूभृते ॥१॥
119१२ अथ राजप्रश्नीयविचारा यथा