________________
| उपासकदशाविचाराः
विचार-6 से आणंदे समणोवासए इमेणं एयारूवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतए जाव । इति ।
वृत्तिर्यथा-' महावीरस्स अंतियं' ति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः तां 'धम्मपन्नत्ति' ति धर्मप्रज्ञप्तिमुपसंपद्यअङ्गीकृत्यानुष्ठानद्वारतः 'जहा पूरणो' ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत्तथाऽयं कृतवानित्यर्थः । एवं चासौ कृतवान् ‘विउलं असणपाणखाइमसाइमं उवक्खडावित्ता, मित्तनाइनियगसंबंधिपरिजणं आमंतेत्ता, तं मित्तनाइनियगसंबंधिपरिजणं
विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेत्ता संमाणेत्ता, तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो Tegl
जेठ्ठपुत्तं कुडुंबे ठावित्ता' 'नायकुलंसि' त्ति स्वजनगृहे ' उवक्खडेउ' त्ति उपस्करोतु-राध्यतु ' उवकरेउ' ति उपकरोतु-सिद्धं सत् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु ' पढमं' ति एकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति ।
तस्याश्चेदं स्वरूपम्-" संकादिसल्लविरहिय-सम्मसणजुओ उ जो जंतू सेसगुणविप्पमुक्को, एसा खलु होइ पढमाओ ॥ १॥" heel सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्यु
पगमेन च प्रतिमात्वं सम्भाव्यते कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन, द्वौ मासौ द्वितीयायाः पालनेन, एवं यावदेकादश मासानेकादश्याः पालनेन, पञ्चसार्द्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् । 'अहासुत्तं' ति सूत्रानतिक्रमेण, यथा कल्पं-प्रतिमाचारानतिक्रमेण, यथामार्ग-क्षायोपशमिकभावानतिक्रमेण, 'अहातच्चं' ति यथातत्त्वं दर्शनप्रतिमेति शब्दस्यान्वर्थानतिक्रमेण, 'फासेइ' ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः 'पालेइ'त्ति सततोपयोगप्रतिजागरणेन रक्षति । ' सोहइ' त्ति शोभयति गुरुपूजापुरस्सरपारणककरणेन शोधयति वा निरतिचारतया 'तीरेइ' त्ति पूर्णेपि कालावधावनुबन्धात्यागात्, कीर्त्तयति तत्समाप्ताविदञ्छेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात्, आराधयति एभिरेव प्रकारैः संपूर्णैर्निष्ठां नयतीति । 'दोच्चं' ति द्वितीयां व्रतप्रतिमाम्, इदञ्चास्याः स्वरूपम्- “ दंसणपडिमाजुत्तो, पालंतोणुव्वए निरइयारे । अणुकंपाइगुणजुओ, जीवो इह होइ वयपडिमा ॥ २ ॥" ' तच्चं ' ति तृतीयां सामायिकप्रतिमाम् तत्स्वरूपमिदम्" वरदंसणवयजुत्तो, सामाइयं कुणइ जो उ संझासु । उक्कोसेण तिमासं, एसा सामाइयप्पडिमा ॥३॥" 'चउत्थं' ति चतुर्थी पौषध
पालनन, द्वौ मासौ द्वितीय
दनात् । अहासत्तारतवानित्यर्थतो वक्ष्य
||९६॥