SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व Groomidiomonitorionidroidrioridoe अनाहारकमार्गणायां-तत्रानाहारकस्य जीवस्य मोक्षो भवति नाऽऽहारकस्य ८ । ज्ञानमार्गणायां-केवलज्ञाने सति मोक्षो भवति न शेषे मतिज्ञानश्रुतज्ञानाऽवधिज्ञानमनःपर्यायज्ञानचतुष्टये ९ । दर्शनमार्गणायां-तत्र केवलदर्शने मोक्षो भवति न चक्षुर्दर्शन-अचक्षुर्दर्शन-अवधिदर्शनत्रये सति १० । इति मोक्षतत्त्वस्य नवभेदा वर्तन्ते तेषां मध्ये प्रथमः सत्पदप्ररूपणारूपो भेदो व्याख्यातः १॥३९॥ अथ द्रव्यप्रमाण-क्षेत्रद्वारद्वयं गाथयाऽऽह दव्वपमाणे सिद्धाणं जीवदव्वाणि हुंति णंताणि । लोगस्स असंखिज्जे भागे इक्को य सव्वेवि ॥४०॥ द्रव्यप्रमाणद्वारे चिन्त्यमाने सिद्धानां जीवद्रव्याण्यनन्तानि सन्तीति द्रव्यद्वारं समाप्तं २ । क्षेत्रद्वारे चिन्त्यमाने लोकाकाशस्याऽसंख्येयतमे भागे एकः सिद्धो वर्तते सर्वे वा सिद्धा लोकाकाशस्यासंख्येयतमे भागे वर्तन्ते परमेकसिद्धव्याप्तक्षेत्रापेक्षया सर्वसिद्धव्याप्तक्षेत्रमधिकप्रमाणं ज्ञेयं, क्षेत्रद्वारं समाप्तं ३ ॥४०॥ अथ स्पर्शना-कालअन्तररुपं भेदत्रयं गाथयाऽऽह - . 60606060060606d6d6d6ore जीवविचारादि प्रकरणचतुष्टयम् Koll
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy