SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जीवविचारादिप्रकरणचतुष्टयम् पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अब्भितरओ तवो होइ ॥ ३४॥ इदं बाह्यं तपो भवति, तस्य षड्भेदास्तथाहि - अनशनं १ ऊनोदरता २ वृत्तिसंक्षेपः ३ रसत्यागः ४ कायक्लेशः ५ संलीनता च ६ तेषामर्थो यथा - अनशनमाहारत्यागरूपं तच्च द्वेधा - इत्वरं १ यावत्कथिकं च २ तत्रेत्वरं - चतुर्थषष्टाष्टमादि, यावत्कथिकं च प्रान्तावस्थायामनशनग्रहणरूपं १ । ऊनोदरता - एकद्वित्रिचतुरादिकवलादिहान्या ज्ञेयाः २ । वृत्तिसंक्षेपः- द्रव्यक्षेत्र-काल- भावविषयाभिग्रहेणानेकधारूपो यथा - श्रीमहावीरस्य चतुर्विधाभिग्रहश्चंदनबालया पूरित: ३ । रसत्यागो विकृतित्यागरूपः ४ । कायक्लेशो- लोचयोगासनादिकष्टसहनं ५ । संलीनता चतुर्विधा - इन्द्रिय १ कषाय २ योग ३ निवारणेन स्त्र्यादिवर्जितस्योपाश्रयस्य निवसनेन ४ च ६ । एवं बाह्यं तपः लोकप्रसिद्धं षड्विधं ज्ञेयं ॥३३॥ अथाभ्यन्तरतपसः षड्भेदानाह - प्रायश्चित्तं १ विनयः २ वैयावृत्त्यं ३ स्वाध्यायः ४ ध्यानं ५ उत्सर्गनामकं ६ च । तेषामर्थो यथा-तत्र प्रायश्चित्तं तद्यत् यथा स्वकीयानि पातकानि लग्नानि भवन्ति तथैव गुरूणामग्रे मनः शुद्धयाऽऽलोच्यते गुरुदत्तं तपश्च समाचर्यते १ । विनयः सप्तधा - ज्ञान १ दर्शन २ चारित्र ३ मनो ४ वचन ५ काय ६ लोकोपचार ७ भेदैर्ज्ञेयः नवतत्त्व ॥७२॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy