________________
नवतत्त्व
06d6d6d6d6d6d6oad
अव्रतानि-प्राणातिपात १० मृषावाद ११ अदत्तादान १२ मैथुन १३ परिग्रह १४ रूपाणि । योगास्त्रयः-मनोयोग १५ वचनयोग १६ काययोग १७ रूपा जाताः सप्तदश भेदाः । क्रियाश्च पञ्चविंशतिरिमाश्च ताः क्रियाः अनुक्रमशोऽनुक्रमेण ज्ञातव्याः ॥२०॥
अथ पञ्चविंशतिक्रिया आह-कायेनायतमानेन निर्वत्ता जाता कायिकी पापक्रिया १ अधिकरणेन पशुवधादिप्रवृत्तेन 23 खड्गादिनिर्वर्तनेन च निर्वृत्ता अधिकरणिकी २ जीवाजीवयोरुपरि प्रद्वेषकरणेन भवा प्राद्वेषिकी ३ क्रोधादिना स्वपरयोः । परितापेन निर्वृत्ता पारितापनिकी ४ प्राणातिपातेन जीववधेन भवा प्राणातिपातिकी ५ कृष्याद्यारंभेन भवाऽऽरम्भिकी ६ धनधान्यादिनवविधपरिग्रहेण भवा पारिग्रहिकी ७ मायया परवञ्चनेन जाता मायाप्रत्ययिकी ८ ॥२१॥
मिथ्यादर्शनेन जिनवचनविपरीतपरिणामरूपेण प्रत्ययेन जाता मिथ्यादर्शनप्रत्ययिकी ९ अप्रत्याख्यानेनाविरत्या जाताऽप्रत्याख्यानिकी १० दृष्ट्वा कौतुकनिरीक्षणादि जाता दृष्टकी ११ रागाद्वा द्वेषाद्या वृषभादिबालादिविशिष्टवस्तूनां | हस्तस्पर्शनेन जाता स्पृष्टिकी १२ जीवाजीवादिकं प्रतीत्याश्रित्य कर्मबन्धनेन जाता प्रातित्यकी १३ स्वकीयगजतुरंगमवृषभादिविशिष्टपदार्थं विलोकयितुं लोकं सर्वतः समागच्छन्तं प्रशंसाकुर्वन्तं वा दृष्ट्वा हर्षकरणेनाथवाऽनाच्छादितस्नेहादिभाजने ।
Sidhion6006/
06d6doiidnowonod6d6d
जीवविचारादिप्रकरणचतुष्टयम्