SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व थावरसुहमअपज्जं साहारणमथिरमसुभदुभगाणि । दुसरअणाइज्ज जसं थावरदसगं विवज्जत्थं ॥१९॥ एते व्यशीतिभेदाः पापतत्त्वस्य हुंतीति-भवन्ति । के ते इत्याह-ज्ञानान्तरायदशकं-ज्ञानावरणपञ्चकमन्तरायपञ्चकं च । ३ तत्र ज्ञानान्तरायपञ्चकं किमुच्यते ? तत्राह-मतिज्ञानावरणं १ श्रुतज्ञानावरणं २ अवधिज्ञानावरणं ३ मनःपर्यायज्ञानावरणं ४ केवलज्ञानावरणं ५ तत्र पञ्चभिरिन्द्रियैः Bषष्ठेन मनसा जीवस्य यत् ज्ञानं स्यात् तन्मतिज्ञानं तस्यावरणं मतिज्ञानावरणं १ श्रुतज्ञानावरणं तत्र श्रुतं द्विविधं-द्रव्यश्रुतं भावश्रुतं च द्रव्यश्रुतं द्वादशांगीरुपं १ भावश्रुतं द्वादशांगीतः समुत्पन्नं उपयोगरूपं तस्यावरणं श्रुतज्ञानावरणं २ अवधिज्ञानं जीवविचारादि द्विप्रकारं-भवहेतुकं गुणहेतुकं च । भवहेतुकं देवनारकाणां, गुणहेतुकं तु श्राद्धसाधूनां स्यात् तस्यावरणमवधिज्ञानावरणं ३ प्रकरणचतुष्टयम् ३ मनःपर्यायज्ञानं सार्द्धद्वयद्वीपसमुद्रस्थितसंज्ञिपञ्चेन्द्रियमनोविषयं तदपि द्विभेदं ऋजुमति-विपुलमतिभेदादिदं च साधूनामेव भवति तस्यावरणं मनःपर्यायज्ञानावरणं ४ तथा घनघातिकर्मचतुष्टयक्षयेन समुत्पन्नं सकललोकालोकप्रकाशकं केवलज्ञानं तस्यावरणं केवलज्ञानावरणं ५ । 606006d6d6d6d6d6nd dिio66606d6d6d6006
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy