________________
जीवविचारादि
प्रकरण
चतुष्टयम्
लोकमध्ये धर्मास्तिकायदेशः अधर्मास्तिकायदेशः आकाशास्तिकायस्कन्धः एते त्रयो, न शेषा एकादश भेदा लभ्यन्ते । | अलोकमध्ये त्वाकाशास्तिकायस्य स्कन्धो न, किन्तु देशप्रदेशाविति भेदद्वयमेव ।
ननु यद्यलोकमध्ये आकाशं वर्तते, तस्य लक्षणं 'अवगाहो आगासं' इति ततः कोऽपि देवादिः पुद्गलमलोकमध्ये क्षिपेत्तदा याति ? उच्यते न हि कथं ? तत्र 'चलणसहावो धम्मो' इति धर्मास्तिकायस्याभावेन पुद्गलस्यागमनेनाप्रवेशात् ॥८॥ अथ प्रकारान्तरेणाजीवस्य पञ्चैव भेदान् धर्मास्तिकायादीनां च लक्षणानि गाथाद्वयेनाह -
धम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा । चलणसहावो धम्मो थिरसंठाणो अहम्मो य ॥९॥
अवगाहो आगासं पुग्गलजीवाण पुग्गला चहा । खंधा देसपएसा परमाणु चेव नायव्वा ॥ १० ॥
अजीवा पञ्च भवन्ति, के ते इत्याह- धर्मास्तिकायः १ अधर्मास्तिकायः २ पुद्गलास्तिकाय: ३ 'नह' इति नभ आकाशं
नवतत्त्व
॥४७॥