________________
षट् घ्राणेन्द्रिययुताः सप्त स्युः । चतुरिन्द्रियेषु त एव सप्त चक्षुरिन्द्रिययुता अष्टौ प्राणा: स्युः ॥४२॥ ___असन्नित्ति-असंज्ञिपञ्चेन्द्रियेषु संज्ञिपञ्चेन्द्रियेषु च क्रमेण नव दश प्राणा बोद्धव्याः । तत्रासंज्ञिपञ्चेन्द्रियेषु त एवाष्टौ
श्रोत्रेन्द्रिययुता नव स्युः । तथा संज्ञिपञ्चेन्द्रियेषु त एव नव मनोबलयुत्ता दश प्राणाः स्युः । तैः प्राणैः सह विप्रयोगो जीवानां 3जीवविचार | मरणं भण्यते । अत्र देवनारकगर्भजतिर्यग्मनुष्याः संज्ञिन उच्यन्ते । संमूच्छिमतिर्यग्मनुष्यास्तु असंज्ञिन उच्यन्ते । तत्र
संमूच्छिममनुष्याणां वाग्बलादिवर्जिताः सप्ताष्टौ प्राणा बोध्याः ॥४३॥ अथोक्तस्वरूपं मरणं जीवैः कतिवारान् प्राप्तमित्याशंका निरासार्थमाह -
एवं अणोरपारे संसारे सायरंमि भीमंमि । जीवविचारादि-15
पत्तो अणंतखत्तो जीवहिं अपत्तधम्मेहिं ॥४४॥ प्रकरणचतुष्टयम् अप्राप्तधमै र्जीवैः एवं अणोरपारत्ति-अवारपारवजिते अत एव भीमे भयंकरे संसारे सागरे संसाररूपसमुद्रे एवं ॥३०॥
प्राणवियोगलक्षणप्रकारेणानन्तकृत्वः अनन्तवारान् पत्तोत्ति प्राप्तम् प्रसंगान्मरणमिति संबध्यते । प्राकृतत्वात्पुंलिंगनिर्देशः । क्वचित्तु 'पत्तं' पाठो दृश्यते ॥४४॥ अथ पञ्चमं योनिद्वारमाह -
26/06/onwon6N6006idiwoniloniione
m6ow6RAGONGrol6d6d6indsorder