SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् ईसाणंतसुराणं रयणीओ सत्त हुंति उच्चत्तं । दुगदुगदुगचउगेविज्जणुत्तरे इक्किक्क परिहाणी ॥३३॥ अत्रेशानान्तग्रहणेन भवनपतिव्यन्तरज्योतिष्कसौधर्मेशाना ग्राह्याः । तेनेशानान्तं ईशान नाम द्वितीयदेवलोकं यावत् सुराणां | देवानां सप्त रत्नयः सप्त हस्ता: शरीरस्योच्चत्वं भवति । ततः परं द्विक १ द्विक २ द्विक २ चतुष्क ४ ग्रैवेयक ५ अनुत्तरेषु ६ एकैकस्य हस्तस्य परिहारः न्यूनत्वं स्यात् । अयमर्थः - सनत्कुमारमाहेन्द्रद्विके षट् हस्ताः । ब्रह्मलान्तकद्विके पञ्च । शुक्रसहस्त्रारद्विके चत्वारः । आनतादिचतुष्के त्रयः । नवग्रैवेयकेषु द्वौ हस्तौ । पञ्चानुत्तरेषु एक एको हस्तः । देहमानं सर्वेषां जीवानां देहप्रमाणमुत्सेधांगुलेन ज्ञेयम् ॥३३॥ इत्युक्तं देहमानद्वारम् । बावीसा पुढवीए, सत्त य आउस्स तिन्नि वास्स । वाससहस्सा दस तरुगणाण तेउत्तिरत्ताउ ॥३४॥ साम्प्रतमायुर्द्वारमाह - जीवविचार ॥२४॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy