________________
जीवविचारादि
प्रकरण
चतुष्टयम्
बारस जोयण तिन्नेव गाउआ जोयणं च अणुको । बेइंदिय इंदिय चरिंदिय देहमुच्चत्तं ॥ २८ ॥
द्वादशयोजनानि द्वीन्द्रियाणां बहिः समुद्रवर्त्ति शंखादीनां, तथा त्रीण्येव गव्यूतानि त्रीन्द्रियाणां बहिर्द्वीपवर्त्तिकर्णश्रृगाल्यादीनां, तथा योजनं चैकं चतुरिन्द्रियाणां बहिर्द्वीपवर्त्तिभ्रमरादीनां । अनुक्रमशः अनुक्रमेण । देहमुच्चत्तंत्ति प्राकृतत्वेन विभक्तिव्यत्ययात् | देहस्योच्चत्वम् । यद्वा देहं शरीरमुच्चत्वेन भगवता भणितमिति शेषः ॥२८॥ अथ पञ्चेन्द्रियाणां नारकादीनां देहप्रमाणमाहधणुसयपंचपमाणा, नेरइया सत्तमाइपुढवीए ।
तत्तो अर्द्धद्धूणा, नेया रयणप्पा जाव ॥२९॥
सप्तम्यां पृथिव्यां तमस्तमः प्रभायां धनुःपञ्चशतप्रमाणा नैरयिका ज्ञेयाः ७ । ततः परं व्युत्क्रमेणार्द्धार्द्धानाः कायप्रमाणमाश्रित्य | नारका ज्ञेयाः यावत् रत्नप्रभा नाम प्रथमा पृथ्वी स्यात् । अयम्भावः षष्ठयां पृथिव्यां सार्द्धे द्वे धनुःशते देहप्रमाणं ६, पञ्चम्यां सपादशतधनूंषि ५, चतुर्थ्यां सार्द्धद्वाषष्टिर्धनूंषि ४, तृतीयस्यां सपादैकत्रिंशद्धनूंषि ३, द्वितीयस्यां सार्द्धपञ्चदशधनूषि द्वादश
जीवविचार
॥२१॥