________________
हंति उ सत्तरसलक्खा बाणवइसहस्स सलिलाओ ॥२॥' इति । तथा सिद्धांतानुसारेण पुनरेवं ज्ञायते, यद् ग्राहवत्यादीनां । द्वादशनदीनां परिवारो न संभवति । यत एतद्व्यतिरिक्ता जंबूद्वीपे या अन्याः सरितः संति, तासां प्रवाहान्मुखे सर्वासां | दशगुणो विस्तारः सुप्रतीत एव । उक्तं च वाचकमुख्येन-'सर्वा नद्यः प्रवाहदशगुणा मुखे विस्तारपंचाशद्भागावगाहा इति।'
जंबूद्वीप
संग्रहणी Bएतासां तु तथा न किंतु प्रवाहमध्ये मुखे चैकरूप: पंचविंशत्यधिकयोजनशतलक्षणः प्रत्येकं विस्तारः, नान्यः कश्चिद्विशेषो |
न च परिवारोऽप्यासां दृश्यते क्षेत्रसमासबृहद्वत्त्यनुसारेण, अतः प्रतीयते, यद्येतास्वन्या अनेकानि सहस्राणि नद्यः प्रविशेयुस्तदा
कथं क्रमेण परतः परतो गच्छंतीनां विस्तारविशेषो गंगादीनामिव न संपद्येतेति ? अन्यच्च पूर्वविदेहे भद्रशालवनसमीपवर्तिनोः १ कच्छमंगलावतीविजययोस्तथा मुखवनोपकंठस्थयोः पुष्कलावतीवच्छनाम्नोश्च विजययोरंतर्नदीनामभाव एवास्ति, अत एतेषु
चतुर्ध्वपि प्रत्येकं सामस्त्येनाष्टाविंशतिरष्टाविंशतिसहस्राणि नद्यः संति । गंगासिंधुसंबंधिन्यो नापराः यावती च कच्छविजये | जीवविचारादि- प प्रकरण
भूमिरंतर्नदीमतां सुकच्छादीनां द्वादशानामप्यन्येषां च तावत्येव नाधिका, अतः कथं तेषु बहुतरा नद्यो ग्राहवत्याद्यंतर्नदीसंयोगेऽपि । चतुष्टयम्
विशेषभूमेरभावात्संभवंति ? अत्राह-नैतत्संवादकोटीमाटीकते, यतो जंबुद्वीपप्रज्ञप्तावप्यंतर्नदीनां प्रत्येकमष्टाविंशतिनदीसहस्रलक्षण: परिवारो भणितस्तथा च तद्वाक्यं-'गाहावई महानई पवूढासमणीसुकच्छमहाकच्छविजये दुहा विभयमाणी २ अट्ठावीसाए
6workwondo6odriA6ordaroo
॥१६४॥