SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जोयणेत्ति-खंडप्रमाणमजानानं शिष्यं प्रति गुरुस्तत्प्रमाणमाचष्टे-अत्रास्मिन् जंबूद्वीपे प्रक्रांतप्रकरणे वा घनीकृतयोजनपरिमाणानि समचतुरस्राणां खंडानि योजनानि भण्यंते । समास्तुल्यप्रमाणाश्चत्वारोऽस्राः कोटयो येषां तानि | तथोक्तानि । तथाहि- कल्पनया किल कश्चिद् देवः सकलमपि जंबूद्वीपं योजनप्रमाणेष्टिकाचितं करोति, प्रतरविस्तारेण ३ B/तत्प्रमाणा यावत्य इष्टिका भवंति तावत्येव योजनखंडानि भवेयुः । तदानयनाय करणमाह-'लक्खस्से' त्यादि, लक्षस्येति योजनलक्षप्रमाणं वृत्तक्षेत्रं तस्य परिधिर्बाह्यपरिमंडलं भणिष्यमाणप्रमाणं तस्य 'तप्पायगुणं' त्ति, तस्य लक्षस्य यः पादश्चतुर्थोऽशः पंचविंशतिसहस्ररूपः तेन गुणो गुणकारः तस्मिन् कृते सति, चः समुच्चये, किं भवतीत्याह,-'ते हुँति त्ति' प्राकृतत्वात् || लिंगव्यत्ययः । ततस्तानि योजनपरिमाणानि खंडानि भवंति संपद्यते । तथाहि- लक्षस्य परिधौ पंचविंशत्या सहस्रैर्गुणिते जीवविचारादि वांछितांको लभ्यत इति भावः, स चोत्तरत्र प्रपंचेन भणिष्यति ॥६॥ अधुना यदुक्तं 'लक्खस्स य परिहीए' इति परिधेर्नामकीर्तनं प्रकरण- तस्यानयनाय करणगाथामाह - चतुष्टयम् विक्खंभवग्गदहगुण, करणि वट्टस्स परिरओ होइ । विक्खंभपायगुणिओ, परिरओ तस्स गणियपयं ॥७॥ 666660-6060606/dood ఆగసాగసాంగసౌగంగసాగసాంగశాయసాగరం ॥१२६॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy