________________
जीवविचारादिप्रकरणचतुष्टयम्
|च १९०, गुणकारः ततो गुणिते लब्धं योजनानि लक्षं १००००० एतत्पुनर्जंबूद्वीपमानमिति ||३|| पुनर्मुग्धावबोधनार्थं वर्षाणि वर्षधरांश्चाश्रित्य तृतीयं प्रकारमाह -
अहवेग खंडे भरहे, दो हिमवंते य हेमवइ चउरो । अट्ठ महाहिमवंते, सोलस खंडाई हरिवासे ॥४॥
बत्तीसं पुण निसढे, मिलिया तेसट्ठि बीयपासेवि । चउसट्ठी उ विदेहे, तिरासिपिंडे उ नउयसयं ॥ ५ ॥
अहवेत्यादि-अथवेति विकल्पांतरे भरतनाम्नि क्षेत्रे एकमेकसंख्याकं खंडं भवतीत्यादि शेषोऽध्याहार्यः, खंडप्रमाणत्वात्तस्य । | यदुक्तं- "पंचसये छव्वीसे छच्च कलावित्थडं भरहवासं” इति । तथा "दो हिमवंति त्ति" हेमवति वर्षधरे द्वे द्विसंख्ये खंडे भवतः । यतो भरतक्षेत्रात् पराणि वर्षधरवर्षाणि क्रमेण द्विगुणद्विगुणविस्ताराणि । तदुक्तं "भरहेरवयप्पभिई, दुगुणा दुगुणा य होइ विक्खंभे । वासा वासहराणं, जावय वासं विदेहति ॥ १॥ तथा "हेमवइ चउरो" इति हैमवते द्वितीये क्षेत्रे चत्वारि
जंबूद्वीप संग्रहणी
॥१२४॥