________________
प्रस्तावना
प्रव्रज्याविधाने
THIमलं केवलं, यस्मिान
तदभिधयानुष्ठान मरुदेवाप्रभृतीना
श्रीप्रवज्याविधानस्योपक्रमः अर्हन् यः परमो यमर्यमसमज्योतिर्मयं मन्यते, चक्रे येन च कर्ममर्ममथनं यस्मै नतोऽहं प्रभो ! ।। यस्माद्विभ्यति गगमुख्यरिपवो यस्यामलं केवलं, यस्मिन्नितिनायिका कृतरतिः स स्ताज्जिनः श्रेयसे ॥१॥
व्यवहारप्रव्रज्या-विपश्चिद्धरा वृणुतैतत्प्रव्रज्याविधानकुलकं तदभिधेयानुष्ठानद्वारेण चेत्सती समीहा सनातनस्थानस्थास्नुतायां, न हि यतो विना प्रव्रज्याविधानममृतानन्दमयी सनातनपदस्थास्नुता, यद्यपि मरुदेवाप्रभृतीनामतीर्थसिद्धानां भरताधिपभरतचक्रथादीनां गृहस्थलिंगस्थत्वेन गार्हस्थ्यव्यवहारवतां च निःश्रेयसकैवल्यभावाद् भवत एव व्यवहारप्रव्रज्यां विनापि निः४ श्रेयसकैवल्ये, परं यथा देवानां विनापि कवलान् तृप्तेः संभवस्तथा केपांचित् तथाभव्यत्वस्य तथाविधत्वेन स्यातामपि तथा निःश्रेयसकैवल्ये, परं मनुष्यादयो न तादृशसातोदयवंत इति तेन देवादीन् अनुकृत्य जिजीविषुभिः कावलिकाहारः प्रतिक्षप्तुं शक्यः, एवमेव तथातथाभव्यत्ववतो मरुदेव्यादीनिरीक्ष्य निःश्रेयसकैवल्यप्राप्तिमतो विना व्यावहारिकप्रव्रज्यां नोदासितव्यं स्वप्नेऽपि
प्रव्रज्यायां व्यवहारानुगतायां, न च विना चारित्रं विना च तपः सिद्धिं जानानैस्तीर्थकृत्पादैरपि न न चीर्ण व्यवहारचारित्रं, न च न ★ तप्त कठिनकर्मेन्धनहुताशनसदृशं दुस्तपं तप इति, यदि श्रीमतां जिनानां न तथा तथाभव्यत्वं तर्हि के परे तत्कृतिमनुकर्तुमपि सर्व
थाऽशक्तास्तदुपदेशलवमात्रलब्धसद्दर्शनादिलाभाः?, किंच-न युक्तमेवेदं धर्मश्रवणाद्यपि तेषां कादाचित्कभावावलंबनपटनां, यतो न श्रीजिनेश्वरैरन्यैश्च प्रत्येकस्वयंबुद्धैः श्रुतो बुद्धानां पार्थे धर्मः, तत्चतस्ते न धर्मश्रवणतपश्चरणव्यवहारचारित्रपराङ्मुखाः, ततो