________________
प्रव्रज्या० श्रीप्रद्यु: नीयवृत्ती
निर्वाहक
स्तुती अंगवीरः
॥२२२॥
तातुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई जाव न धीरा पवज्जति ॥२२॥ ता वित्थिण्णं गयणं तावच्चिय जलहिणो य गंभीरा । गुरुणो कुलायला ताव जाव न धीरेहिं तोल्लंति ॥ २३ ॥ दुच्चिय हुँति गईओ साहसवंताण धीरपुरिसाणं । बलहत्थी रायसिरी अहव पवज्जा सया म्हेरा ॥२४॥
तावत्तुंगः- उच्चस्तरो लक्षयोजनप्रमाणत्वान्मेरुगिरिः,मकरध्वजो मकराकरः समुद्रस्तावद् दुस्तरो भवति, तावद्विषमा कार्यगतिर्यावन्न धीराः प्रपद्यन्ते, यथा धीराणां नात्युच्चशिखरः सुरशिखरी न च पयोराशिरपारो न कार्य किमपि विषमं तथा प्रवज्याऽपि धीराणां सुकरेति भावार्थः । 'विषमा कार्यगतिस्तावद्यावन्न धीराः प्रपद्यन्ते' इत्यत्र पुरुष एव प्रधान, यतो गर्भवासस्थितोऽपि पुरुषो राज्यश्रियो रक्षिता भवति, अंगवीरवत् , तस्य कथा तथाहि-पुरोऽभवद्वराणस्यां नाम्ना सम्बाधनो नृपः। राज्यो बह्वयोऽपि पुत्रीणां, सहस्राण्यस्य जज्ञिरे ॥१॥ अपुत्रेऽमुत्र वाऽमुत्र, प्राप्ते रुद्धा पुरी परैः। लोकः सर्वोऽपि शोकेनाकुलोऽतिव्याकुलोऽभवत् ॥२॥ बभूवान्तःपुरं शोकातुरं च सचिवाः पुनः। किंकर्तव्यजडा जातास्त्राता कोऽपि न कस्यचित् ॥ ३ ॥ सत्येवं नृपतेः पत्नीमन्तवत्नी विभावयन् । सचिवः शुचिधीरेनां, राज्ये तत्र न्यवेशयत् ॥ ४ ॥ तद्गर्भश्च तदाकर्ण्य, परानीकं समागतम् । सर्वपर्याप्तिपर्याप्तः, संज्ञी पंचेन्द्रियोऽपि च ॥ ५॥ स्वप्रदेशान् बहिष्कृत्वा, स्वयमन्तःस्थितोऽपि सः। वीर्यवैक्रियलब्धियां, गृहीता| चित्तपुद्गलः ॥ ६॥ हस्त्यश्वरथपादातसम्पातकलितां चमूम् । विकुर्वित्वा परानीकेनामा संग्राममातनोत् ।। ७ ॥ विस्मितास्ते परानीकराजानो नीरपूरवत् । व्युत्सृज्य वैक्रियानीकं, दूराद् दूरतरं ययुः।।८।। पुरीलोकैर्विचार्याथ, तत् सर्व देवताकृतम् । तस्याङ्गवीर इत्याख्याऽङ्गस्थवीरत्वतः कृता ।।९॥ स विक्रमसमाक्रान्तविक्रान्ताखिलशात्रवः । स्त्रीश्च कन्याश्च राज्यं च, पपौ गर्भगतोऽपि हि
TECRECAECECARRASSIS)
| ॥२२२॥