SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्युश्रीयवृत्तौ ॥१२५॥ तिस्रः प्रागुक्तसप्तकसहिता दश स्युः, एकादशी अहोरात्रिकी, तस्यां ग्रामनगराद्वहिः स्थितः प्रलम्बितपाणिरपानकषष्ठभक्तपूर्व प्रतिपद्यते ११ द्वादशी प्रतिमा त्वेकरात्रिकी, तां चाष्टमभक्तानन्तरं बहिरीपत्प्राग्भारगतोऽनिमिषनेत्र एकपुद्गलन्यस्तदृष्टिः संहतपादः प्रलम्बित भुजश्च स्थाने तिष्ठति इति द्वादश प्रतिमाः साधुना धार्याः, अनेकरूपा अभिग्रहा बहवः कार्या इति, तांश्चोत्तरार्द्धेन विवृणोति द्रव्यक्षेत्रानुगताः काले भावे च बोद्धव्या इति संक्षेपार्थः ॥ व्यासार्थस्तु श्रीमहावीरोऽभिग्रहेषु दृष्टान्तः, अतस्तच्चरितं लेशतः प्रकाश्यते- आस्ते पर विदेहान्तः, शत्रुमर्दनपालिता । स्वर्जयन्ती जयन्तीति, नगरी स्वर्गरीयसी ॥ १ ॥ राज्ञः पृथ्वी प्रतिष्ठान ग्रामोऽस्ति ग्रामचिन्तकः । नयसार इति ख्यातो, व्यापारनयसारथिः ॥ २ ।। सोऽन्यदा भूभृदादिष्टश्वारुदारुकृते कृती । सतक्षशकटोक्षः | सन्नटवीमटति स्म च ॥ ३ ॥ वृत्तेषु लक्षणैः स्थित्वा, तक्ष्यमाणेषु तक्षभिः । नयसारे तरुच्छायासीने शासति तानलम् ॥ ४ ॥ क्षुधाक्रान्तास्तृषाक्लान्ताः, पथभ्रान्तास्तदाऽऽगमन् । सार्थाद् भ्रष्टा महाकष्टाः साधवः प्राणिबन्धवः ||५|| आतिथेयोऽतिथीनेतानभिगम्य प्रणम्य च । नयसारः कृपासारः, पानान्नैः प्रत्यलाभयत् ॥ ६ ॥ पूर्वोपकारिणे तस्मै, प्रीत्य । प्रत्युपकारिणः । मुनयो नयसाराय, सारं रत्नत्रयं ददुः ||७|| अथ तेनेहलोकाध्या, साधूनां निर्मलः पुरः । तैस्तस्य परलोकाध्वा, निज (दत्तो) देहेऽपि निःस्पृहैः ॥ ॥ ८ ॥ आनीय शस्यकाष्ठानि, रम्षकाष्ठामधिष्ठितः । आयुः प्रपाल्य सौधर्मेऽसौ धर्मरतधीरगात् ॥ ९ ॥ च्युत्वा चैष विनीतायां, वृषभस्वामिजन्मनः । भरतस्याङ्गजो जज्ञे, मरीचिरिति नामतः ॥ १० ॥ जाते युगादिनाथस्य, केवले श्रुतदेशने । प्रव्रज्यां जगृहे शुद्धो, मरीचिर्भाववीचिभिः ॥ ११ ॥ बहु प्रपाल्य चारित्रं, तदावरणतोऽन्यदा । आशिरोऽधि भृशं तप्तोऽर्ककरैः प्रव्रज्यास्वरूपे अभिग्र वीरप्रभुः ।। १२५ ।।
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy