________________
श्री
प्रव्रज्या०
श्रीप्रधुनीयवृत्तौ
॥१९२॥
निःसंशयो जयो देव !, भवतोऽत्र भविष्यति ॥ ६५ ॥ उदश्रुतिबलेनैप, दवाऽवस्कन्दमात्मना । धृत्वा प्रद्योतमा नैषीन्, मानैषी धुन्धुमारराद् ॥ ६६ ॥ उत्तमोऽयं गृहायात, इत्यङ्गारवतीं सुताम् । प्रद्योताय पिता प्रीतः प्रादादुदवहत् स ताम् ||६७॥ प्रद्योत भूयः प्रेयस्यागारवत्याऽपि संगतः । सम्प्राप स्मरसन्तापनिर्वापणमिहाद्भुतम् ॥ ६८ ॥ अन्यदाऽल्पबलं वक्ष्य, नृपं प्राह प्रियामयम् । भद्र ! कथं गृहीतोऽहं ?, साऽवदन्मुनिवाक्यतः ॥ ६९ ॥ प्रद्योतोऽथ गतः प्राह, हसन् दैवज्ञ ! वन्द्यसे । उपयुक्तः स डिम्भानां, मा भीरित्यस्मरद्वचः ॥ ७० ॥ इत्युक्ताः पिण्डस्य द्वाचत्वारिंशद्दोषाः, प्रस्तावात् पंच ग्रासैषणादोषा अपि कथ्यते, तत्र रसगृद्धया संयोजनं कुर्वतः संयोजनादोषो, न तु ग्लानत्वादौ १, द्वात्रिंशत्कवल प्रमाणातिरिक्तं न भुञ्जीत, अजीर्णादिदोषहेतुत्वात् २, रागेणाश्नतश्चरणेन्धनेऽङ्गारदोषः २, द्वेषेणानिष्टं अश्नतश्चरणेन्धने धूमदोषः ४, क्षुद्वेदनाशमन गुरुवैयावृत्त्यविधान संयमरक्षणस्वाध्यायविधानप्राणरक्षणईर्याविशोधनरूपैरेव कारणैर्भोक्तव्यं, न तु रूपबलहेतोरिति ५, इत्युक्ता द्विचत्वारिंशद्दोषा भोजनदोषाश्च पञ्च इति गाथार्थः ॥ ४ ॥ अथ तुर्यद्वार तृतीयगाथार्थः, -
इरियाइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणंमि । निच्चुज्जुत्तो अममो अकिंचणो गुणसयावासो ॥ ५ ॥
एवंविधः साधुर्भवतीति गम्यते, 'इरियाइपंचसमिईहिं' ईर्यादिभिः पंचाभिः समितिभिस्तिसृभिश्च गुप्तिभिरुपलक्षितः, तपोविधाने च नित्योद्युक्तः, पुनः कथंभूतः १-' अममः ' स्वजनप्रभृतिषु ममत्वरहितः, तथा अकिञ्चनः न किंचनास्यास्ति अकिंचनः, निष्परिग्रह इत्यर्थः, गुणानां मूलगुणोत्तररूपाणां सदावासो भवति स मुनिरिति संक्षेपार्थः । तपोविधाने बाह्ये षष्ठाष्टमादिरूपे अभ्यन्तरे च साधुवैयावृत्त्यरूपे तत्फले च स प्राच्यभवे वसुदेवो दृष्टान्तः, तथाहि--नन्दिग्रामे चक्रवर द्विजसोमिलयोः सुतः ।
४ प्रव्रज्या
स्वरूपे
नन्दिषेणवृत्तं
॥ ११२ ॥