SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्री प्रस्तावना प्रव्रज्याविधाने ॐ42355661 परीषहोपसर्गाश्च, सह्याः किं बहुनाऽथवा । धार्याऽष्टादशशीलाङ्गसहस्री दुर्वहा सदा ॥ १८५ ।। मरुद वस्त्रेण धार्योऽयं, तार्या गंगा विलोमतः । जेयमेकाकिना सैन्यं, मेरुस्तोल्यस्तुलाधृतः ॥ १८६ ॥ राधावेधो विधेयोऽसावगृहीतः पुरा कचित् । निरन्तरं ग्रहीतव्यो जगत्रयजयध्वजः ॥ १८७ ॥ कुलकानुकरणं-भगवाद्भिः श्रीहरिभद्रसारिभिः कुलकमभव्यस्वरूपोपदर्शकमादौ कृतं, तदनु श्रीअभयदेवसूरिभिश्चन्द्रगच्छ. मंडनैर्वन्दनकुलकादीनि कृतानि, तदनुकरणेन कैश्चित् पूर्वसूरिभिः प्रव्रज्याविधानाभिधमेतत् कुलकमकारि, यद्यपि श्रीमत्प्रद्युम्नसूरिमिरपि नैतत् कुलककारीणामैतिह्यमुपलब्धं तेन 'प्राच्यसाधुप्रवरविरचिते' इति प्रोचुः ते तथापि श्रीमद्भिः प्रद्युम्नसूरीणां पितृ || व्यगुरुभिः श्रीपरमानन्दसूरिभिः एतत्कुलकानुकारेण संस्कृते प्रव्रज्यास्वरूपमात्रप्रदर्शनपरं कुलकं कृतं, एतच्च श्रीईयोपथिकीषट्त्रिंशिकायां मुद्रितमपि भव्यावबोधाय दर्शनीयतामेति, तच्चेदम् त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा सम्प्रति यदसावतिदुष्प्रापाऽऽगमेऽभिहिता ॥ १॥ तथाहिपञ्चन्द्रियत्वनृत्वाऽऽर्यदेशकुलकल्पताऽऽयुषां भावे । सद्गुरुसंगश्रवणश्रद्धासु च सर्वविरतिः स्यात् ॥२॥ तदिमां चिन्तामणिका| मधेनुकल्पद्रुमोपमा लब्ध्वा । दीक्षां क्षणमपि कार्यों न हि प्रमादस्त्वया तस्याम् ॥ ३ ॥ ग्रहणाऽऽसेवनशिक्षाविषये यतितव्यमविरतमिदानीम् । धर्मतरुमूलकन्पे विनयेऽभिरतिर्विधातव्या ॥ ४ ॥ पञ्चमहाव्रतरत्नानि नित्यमेवानुशीलनीयाणि । षधि. जीवनिकायो हि रक्षणीयः स्वजीववत् (इव) ५॥ वाक्यं मृषा न वाच्यं परपीडाहेतुकं च सावधम् । नैवादत्तं स्तोकमपि वस्तु परकीयमादेयम् ॥ ६ ॥ चरणीयं ब्रह्मवतमनघं श्रीस्थूलभद्रमुनिनेव । मूर्छापरिग्रहोऽपि च वरिहार्योऽनेकदोषनिधिः ॥ ७ ॥ उRSANASACRUGROCEARH
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy