SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः काख्यग्रंथे तएवेसनंतरंलिख्यंतइतिशेषः । तत्रस्थितानामपिकेषांचिदलेखनात्मायइ त्युक्तं । यथाऽनंतर श्लोकस्योत्तरार्धं । तत्रैवंदृश्यते 'हृदयेखेलतोरुच्चैस्तन्वंगीस्तनयोरिवे ति' स्वयंखन्यदेवविरचितमिति । एवंचतदीयखेनकथनादाशंकानिरासः ॥५॥ उपमायत्रसादृश्यलक्ष्मीरुल्लसतिद्वयोः ॥ हं सीवरुष्णतेकीर्तिःस्वर्गगामवगाहते ॥ ६ ॥ यत्रोपमानोपमेययोः सहृदयहृदयाल्हादकत्वेनचारुसादृश्य मुद्भूततयोल्लसतिव्यंग्यमर्यादांविनास्पष्टंप्रकाशतेतत्रोपमालं कारः। हंसीवेत्युदाहरणम् । इयंचपूर्णोपमेत्युच्यते । हंसीकी र्तिः स्वर्गगावगाहनमिवशब्दश्चेत्येतेषामुपमानोपमेयसाधारण धर्मोपमावाचकानांचतुर्णामप्युपादानात् । यथावा।“गुणदोषौ बुधोगृह्णन्निंदुवेडाविवेश्वरः। शिरसाश्लाघतेपूर्वपरंकंठेनियच्छ ति॥” अत्रयद्यप्युपमानोपमेययो क साधारणोधर्मः। उपमा नेईश्वरेचंद्रगरलयोहणमुपादानंतयोर्मध्ये पूर्वस्यचंद्रस्यशिसा श्लाघनंवहनंउत्तरस्यगरलस्यकंटेनियमनंसंस्थापनंउपमेयेवुधे गुणदोषयोग्रहणंज्ञानंतयोर्मध्येपूर्वस्यगुणस्यशिरसाश्लाघनंशि र कंपेनाभिनंदनं उत्तरस्यदोषस्यकंठेनियमनंकंठादुपरिवाचा ऽनुद्घाटनमितिभेदात् । तथापिचंद्रगरलयोर्गुणदोषयोंश्चबिं बप्रतिबिंबभावेनाभेदादुपादानज्ञानादीनांगृह्णन्नित्येकशब्दोपा दानेनाभेदाध्यवसायाचसाधारणधर्मतेतिपूर्वस्माविशेषः । व स्तुतोभिन्नयोरप्युपमानोपमेयधर्मयोःपरस्परसादृश्यादभिन्न योःप्टथुगुपादानबिंबप्रतिबिंबभावइत्यालंकारिकसमयः॥ ६ ॥ संप्रसर्थालंकारेषु निरूपणीयेषुबहलालंकारघटकतयासुप्रसिद्धतयाचप्रथममुपमालं कारंलक्षयति उपमेति । अयंचलक्ष्यनिर्देशः। शेषलक्षणं । सादृश्यलक्ष्मीश्चमत्कृतिज नकतातद्विशिष्टसादृश्यमितियावत् । धर्मधर्मिणोरभेदोपचाराल्लक्षणव्याचष्टे यत्रेति । यत्रकाव्येत्तित्वंसप्तम्यर्थः। तच्चशक्तिलक्षणान्यतरसहकारेणबोधकखसंबंधेन। उपमा। नमधिकगुणंचंद्रादि। उपमेयंवर्ण्यमानंकामिनीवदनादि। सहृदयाकाव्यभावनापरिपक बद्धिः। व्यंग्यस्यमर्यादाप्रतीतिनियमरूपाययासाव्यंजनेसर्थः। अत्रचोपमानोपमेययो
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy