________________
कुवलयानंदः उद्घाट्ययोगकलयाहृदयाजकोशंधन्यैश्चिरादपि यथारुचिगृह्यमाणः ॥ यःप्रस्फुरत्यविरतंपरिपू
र्णरूपःश्रेयःसमेदिशतुशाश्वतिकमुकुंदः ॥ ३ ॥ संप्रतिप्रतिपिपादयिपितानामलंकाराणांव्युत्पत्तेःखतोऽपुरुषार्थतयाफलत्वायोगा त्तस्यारसास्वादौपयिकत्वेनफलत्वंप्रेक्षावतांप्रकृतग्रंथप्रवृत्तयेसूचयितुंशृंगाररसाधिदैव तंश्रीकृष्णप्रतिरसास्वादानंदंप्रार्थयते। उद्घाट्येति।समुकंदोमेमांशश्वद्भवंशावतिकंभ नावरणतयासदाप्रकाशमानंश्रेयोविगलितवेद्यांतरमानंदं रसौवैसइतिश्रुतेः'रसपदाभि धेयंदिशतुददात्वियर्थः।यथाश्रुतेमुक्तिमार्थनाया प्रकृतेऽसंगसापत्तेः सकायोधन्यैर्महा महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलयायोगकौशलेनहृदयाब्जस्यउरसोमध्य वर्तिनोहृदयपुंडरीकस्यकोशंमुकुलंअधोमुखतयाविद्यमानं उद्घाट्यरेचकमाणायामेनो यमुखंकृत्वाचिरादहुकालं यथारुचियथेच्छंगृह्यमाणोपिरामकृष्णाद्यभिमतमूर्तिध्यान गोचरीक्रियमाणोपिपरितः पूर्णरूपमस्यतथाभूतोऽपरिच्छिन्नब्रह्मरूपोऽविरतंनिरंत रंमुक्तिदशायांप्रस्फुरतिप्रकाशतइतिविरोधालंकारः। औपासनिकरूपस्यकल्पितत्वेन चतत्परिहारः। अथवायोगिभिरप्यचियस्वरूपइतिमाहात्म्यातिशयवर्णनं । अत्रयोगि गतभगवद्विषयकरतिभावस्यकविगतंतंप्रसंगतयात्रेयोलंकारः ॥ ३ ॥
अलंकारेषुबालानामवगाहनसिद्धये ॥ ललि
तःक्रियतेतेषांलक्ष्यलक्षणसंग्रहः ॥ ४ ॥ चिकीर्षितस्यग्रंथस्यप्रयोजनाभिधेयेप्रदर्शयति । अलंकारेष्विति । एतच्चोभय न्वयि । अलंकारेषुअर्थालंकारपूपमादिषुविषयेबालानामव्युत्पन्नानांतेष्ववगाहनस्य व्युत्पत्तेःसिद्धयइत्यर्थः । तेषांयेलक्ष्यलक्षणेतयोःसंग्रहइतिनियसापेक्षखात्समासः। ल क्ष्यंउदाहरणम् । अलंकारखंच रसादिभिन्नव्यंग्यभिन्नत्वेसतिशब्दार्थान्यतरनिष्ठाया विषयितासंबंधावच्छिन्नाचमत्कृतिजनकतावच्छेदकतातदवच्छेदकवं । अनुप्रासादि • विशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषुलक्षणसमन्वयः । श ब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतायांविषयितयावच्छेदकत्वेनतद्विशेषणीभूतानुमा सोपमादेस्तनिष्ठावच्छेदतावच्छेदकत्वात् । रसवंदाद्यलंकारसंग्रहायव्यंग्योपमादिवा रणायचभेदद्वयगर्भसरंतोपादानम् ॥ ४ ॥
येषांचंद्रालोकेदृश्यंतेलक्ष्यलक्षणश्लोकाः ॥ प्रा
यस्तएवतेषामितरेषांत्वभिनवाविरच्यते॥५॥ परकीयग्रंथापहारशंकानिरासायाह येषामिति ।येषामलंकाराणांचंद्रालोकेचंद्रालो